________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
चरक-संहिता।
[उपकल्पनीयः तमुवाच भगवानात्र यः। शक्यं तथैव प्रतिविधातुमस्माभिरस्मद्विधैर्वाप्यग्निवेश यथा प्रतिविहिते सिध्येदेवौषधम् एकान्तेन, तच्च प्रयोगसौष्ठवमुपदेष्टुं यथावन्न हि कश्चिदस्ति य एतदेवमुपदेष्टु *मुपधारयितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तं प्रयोक्तुं वा । सूक्ष्माणि हि दोषभेषजदेशकालबलशरीरानिमित्ता, कथं तहि व्यापत् सम्भवेत् ? यदि चैवं ज्ञानपूव्वकप्रयोग कम्म सम्यगसम्यक च समारब्धं सत् कस्यचित् सिध्यति कस्यचिद व्यापद्यते वा खल्वनियमन, तहि च ज्ञानमज्ञानेन तुल्यं भवतीति। ततः केन हेतुना व्यापदो भाविखाशङ्कायां तत्प्रतिकारार्थमग्रे सम्भारा उपकल्पनीया भिषजा भवन्तीति ॥३॥ ___ गङ्गाधरः इत्येवं पृष्टो भगवानात्रेयस्तं पृष्टवन्तमग्निवेशमुवाच तदुत्तरम् । तयथा-शक्यमित्यादि। भो अग्निवेश ! यथा प्रतिविहिते सत्यौषधे सिध्येत्
औषधमेकान्तेन तथा खौषधं प्रतिविधातुमस्माभिः शक्यं भवत्यस्मद्विधैर्वा तपोबलेन रजस्तमोभ्यां विनिर्मुक्तनिर्मालाव्याहतबुद्धा सर्वज्ञतया तत्त्वज्ञानवद्भिर्वा शक्यं भवति । यदुच्यते खया यथा तत्प्रयोगसौष्ठवं स्यात् तथा भवतोपदिश्यतामिति तत्र ब्रूमः। तच्चेत्यादि। तच्च प्रयोगसौष्ठवं यथावदुपदेष्टुं समर्थः कश्चित् न ह्यस्ति य एतत् प्रयोगसौष्ठवमुपदेष्टुमुत्सहेत यो वा तत प्रयोगसौष्ठवमुपधारयितुमुत्सहेत, तादृशोऽपि कश्चिन्नास्ति । - श्रुखा च तत्प्रयोगसौष्ठवोपदेशमुपशय्य तथा प्रतिपत्तुंबोद्ध बुद्धा वा तत्प्रयोगसौष्ठवार्थ प्रयोक्तमस्मभ्योऽस्मद्विधभ्यो वान्यः कश्चिदस्ति कस्मादिति चेत् ? तदोच्यते---सूक्ष्माणि हीत्यादि। हि यस्मात् प्रतिपुरुषं दोपभेषजादीनां
चक्रपाणिः--प्रयोगसौष्ठवं प्रयोगसुष्ठुत्वं, यथावदुपदेष्टु शक्यमस्माभिरस्मद्विधर्वात योजना ; एतदिति प्रयोगसौष्टवम्, एवमिति यथावद, उपधारयितुमिति ग्रन्थेन धारयितुम् ; प्रतिपत्तुमित्यर्थतो ग्रहीतुम् । सूक्ष्माणीत्यादि।-सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन, तत्र दोषस्यावस्थान्तराणि-क्षयस्तथा वृद्धिस्तथा समत्वं, एवमूद्ध देहगमनं तथाधोदेहगमनं तिर्यग्गमनं वा, तथा शाखाश्रयित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वदेशगमनं परदेशगमनं, तथा स्वतन्त्रं परतन्त्रं, तथाऽशांशविकल्पस्तथा धातुविशेषायित्वं, तथा कालप्रकृतिदृष्यानुगुणत्वादिकृतं स्वतन्त्रप्रतिपादितं ज्ञेयानि ; एवं भेषजस्यावस्थान्तराणि-तरुणत्वं, वृद्धत्वम्, आर्द्रत्वं, शुष्कत्वं,
* उपदिषमिति चक्रः।
For Private and Personal Use Only