________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः] सूत्रस्थानम् ।
६४६ संख्याय प्रतीकारार्थाः। न हि सन्निकृष्टे काले प्रादुभतायामापदि सत्यपि क्रयाकये सुकरमाशु सम्भरणमौषधानां यथावत् ॥ २॥
इत्येवंवादिनं भगवन्तमात्रं यमग्निवेश उवाच। ननु भगवन्नादावेव ज्ञानवता तथा प्रतिविधातव्यं, यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन। सम्यकप्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्यापञ्चासम्यक्प्रयोगनिमित्ता। अथ सम्यगसम्यक् च समारब्धं कम सिध्यति व्यापद्यते वा अनियमेन, तुल्यं भवति ज्ञानमज्ञानेनेति ॥३॥ . योगव्यापदः परिसंङ्ख्याय ज्ञाखा तत्तद्व्यापदः प्रतिकारार्थाश्च सम्भारा उपकल्पनीया भवन्ति ।
कथमग्रे कल्पनीया भवन्ति व्यापत्यतिकारार्थाः सम्भाराः, न होकान्तेन व्यापदः सम्भवन्ति यदि च भवेयुस्तदा तदर्था आनेतव्या भवन्ति सम्भारा इत्याशङ्कायामाह-न हीत्यादि। हि यस्मात् प्रादुर्भूतायां व्यापदि सत्यां सन्निकृष्टे निकटे कालेऽर्थात् तत्क्षणे तत्प्रतीकारार्थमोपधानामाशु सम्भरणम् आहरणं सत्यपि क्रयाकये क्रयणस्थानहट्टादित आनयने सम्भवति न सुकरं भवति यथावत् । गमनागमनाभ्यां व्यापयद्धिः स्यादिति । तस्मात् प्रागेवौषधपानादुपकल्पनीयाः सम्भारा इति ॥२॥
गङ्गाधरः--इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच। तद्यथा-नन्वित्यादि। ननु भगवन् गुर आदावेव भिषना संशोधनं पाययितुकामेन पुरुषं बलेन वयसा क्रियासहासहवतः कार्याकार्याभ्यां दोषेण दोषबलेन प्रकृतिविकाराभ्यां जानीयात् । तत एवं ज्ञानवता तत्पुरुषयोग्यमौषधं मात्रया तथा प्रतिविधातव्यम्, यथा प्रतिविहिते सति खौषधे तदौषधमेकान्तेन सिध्यन्न भवत्ययोगातियोगमिथ्यायोगाय। सम्यगित्यादि। हिं यस्मात सम्यक्प्रयोगनिमित्ता सर्वकर्मणां सिद्धिर्भवतीष्टा। व्यापच्चासम्यक्प्रयोगबणिगादिः, परिसंख्यायेति ज्ञात्वा ; क्रयः पण्यम्, आक्रयो मूल्यम् । अनियमेनेति सम्यगारब्धञ्च सिध्यति व्यापद्यते च ॥१-३॥
For Private and Personal Use Only