________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वेदाध्यायः
६४६
चरक-संहिता। स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत् । तदहः स्विन्नगावस्तु व्यायाम वर्जयेन्नरः ॥ ३०॥
तत्र श्लोकाः। स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः। यत्र देशे यथायोग्यो देशो रक्ष्यश्च यो यथा ॥ स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम् । अस्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना ॥ त्रयोदशविधः स्वेदो विना दशविधोऽग्निना। संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः ॥
साङ्गगतः। पुनश्चैव स द्विविधः स्वेदः। स्निग्धो रुक्ष इति द्विविधः । इत्येतत् त्रिविध द्वन्द्व साग्निगुणोऽनग्निगुणश्च । एकाङ्गगतः सव्वाङ्गगतश्च । स्निग्धो रुक्षश्चेति स्वेदमुद्दिश्य कीर्तितः। स्निग्धः पुमान् स्वदेरुपक्रम्यः स्विन्नश्च पथ्याशनो भवत्। खिन्नगावस्तु पुमान् तदहव्यायामं वज्जये. दिति ॥२९॥३०॥ ___ गङ्गाधरः-- अध्यायार्थमाह- तत्र श्लोका इत्यादि। स्वेदो यथा कार्यकर इति । स्नेहपूर्वप्रयुक्तंनेत्यादिग्रन्थः। येभ्यो यद्विधो हित इति वाते स्निग्ध इत्यादि ग्रन्थः। यत्र देशे यथायोग्य इति आमाशयगते वात इत्यादिना ग्रन्थेनोक्तः। देशो रक्ष्यश्च यो यथेति वृषणी हृदयं दृष्टी इत्यादिना ग्रन्थेनोक्तः। स्विन्नेत्यादि। स्विन्नातिस्विन्नरूपाणीत्यादीनि स्पष्टानि । संग्रहेण
सर्वाङ्गगताः प्रस्तरजेन्ताकादयः, स्निग्धो वातविहितः स्वेदः, रुक्षः कफविहितः स्निग्धस्मस्तु वातश्लेष्मविहितोऽनयोर्न भिद्यत इति पृथक नोक्तः ; द्वन्द्व परस्परं विरुद्धं युग्मम्। स्विन्नेन यथा कर्त्तव्यं तदाह-स्विन्न इत्यादि। पथ्याशनो भवेदित्यत्र यद्यपि शृङ्गग्राहिकया नोक्त, तथापि स्वेद प्रवृत्तिविषयदोषस्य यत् पथ्यं तदेव बोद्रव्यम् ॥ ३०॥
चक्रपाणिः-संग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्वं प्रयुक्त नेत्यादि, येभ्यश्च यद्विध इति
For Private and Personal Use Only