________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
सूत्रस्थानम् ।
६४५ व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा। बहुपानं भयकोधावुपनाहाहवातपाः ॥ स्वेदयन्ति दशैतानि नरमग्निगुणाहते। इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ॥ २६ ॥ एकाङ्गसाङ्गगतः स्निग्धो रुक्षस्तथैव च।
इत्येतत् त्रिविधं द्वन्द्व स्वेदमुद्दिश्य कीर्तितम् ॥ गङ्गाधरः--अथाग्निगुणादृतेऽपि स्वेदानाह- व्यायाम इत्यादि। व्यायामः शरीरचेष्टा मल्लक्रीड़ादिः। उष्णसदनमग्नियोगं विना वातादिशीतस्पर्शनादिरहितं गर्भगृहम् । गुरुपावरणं कम्बलादिकम् । क्षुधा बुभुक्षा। बहुपानमुष्णानां मयादीनां बहुमात्रया पानम्। भयश्च क्रोधश्च तौ। उपनाहो बन्धनम् । स च द्विविधः साग्निनिरग्निश्च। तत्र साग्निरुष्णबहलमुपलेपं घनप्रलेपं दत्वा लोमशचर्माविकवस्त्रकोषयवस्त्रबन्धनम् । निरग्निस्तु सलोमचमोदिना बन्धनम्। आहवो युद्धम् । व्यायामान्तर्गतखेऽपि विशेषार्थमस्य पृथगभिधानम्। शरीरचेष्टातिक्रमेणापि प्राणबधार्थ युद्धं करोतीति । अनित्यखाच्च युद्धस्य । आतपो रौद्रम् । एतानि दश व्यायामादीनि अग्निगुणाहते स्वत एवोटण्यस्वभावान्नरं स्वेदयन्ति। ___ उपसंहरति इत्युक्त इत्यादि। अग्निगुणैः संयुक्त एकत्रयोदशविधः स्वेदः। अग्निगुणेने च संयुक्तोऽपर एको दशविधः स्वेदः। इति द्विविधः स्वेद उक्तः । स च द्विविधः पुनदि विधः। एकाङ्गगतः साङ्गगतश्च। आद्यः सङ्करस्वेदादिद्वितीयः प्रस्तरस्वेदादिः। उपनाहादिश्चैकाङ्गगतः। व्यायामादिः
चक्रपाणिः-सम्प्रत्यनग्निस्वेदानाह- व्यायाम इत्यादि। उष्णं सदनमित्यग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च यद् गृहं स्वेदयति, तद योद्धव्यम् ; बहुपानमिति बहुमद्यपानम्। उपनाहो द्विविधः, साग्निरनग्निश्च, तत्र यः साग्निरुपनाहः स सङ्कर एव बोदम्यः, यदुक्त,-"कोलं कुलत्थाः सुरदारास्नाः" इत्यादिना आरग्वधीये, यस्त्वनग्निबलत्वेन शरीरोष्णरोधं कृत्वा स्वेदयति स इह बोद्धव्यः ; आतपश्च यद्यपि उष्णः, तथाप्यग्निकृतं तस्योष्णत्वं न भवतीत्यनाग्नस्वेदः उक्तः ; अग्निगुणादृते साक्षादग्निसम्बन्धेन : ताष्णत्वाद् विना ॥ २९॥
चक्रपाणिः- सर्वस्वेदमुपसंहरति--इत्युक्त इत्यादि। एकाङ्गगताः सङ्करनाड्यादयः,
For Private and Personal Use Only