________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४४ चरक-संहिता।
[स्वेदाध्यायः हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते।। खवच्छन्नः सुसंस्तीर्णेऽभ्यक्तः विद्यति ना सुखम् ॥ २७॥ धीतीकान्तु करीषाणां यथोक्तानां प्रदीपयेत् । शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ॥ सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत् । खवच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम् ॥ होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा । इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः ॥ २८ ॥
प्रशस्त निवाते देशे कुर्यात् । तं कूपं लेपनेन सुमार्जितं कृता तत्र हस्त्ययादीनां करीषैः शुष्कपुरीषैर्दग्धपूरित तैर्दग्धनिधूमाग्नियुक्तः पूरिते कूपे उपरि खटामारोप्य सुसंस्तीणे शयने वातनाशनैः स्नेहरभ्यक्तः सन प्रावारादिना खवच्छन्नः संश्च शयानः पुमान् सुखं स्विद्यति । इति कूपस्वेदः (१२ ) ॥२७॥ ___ गङ्गाधरः-अथ होलाकस्वेदविधानमाह-धीतीकान्खित्यादि। यथोक्तानां गोखरावादीनां करीपाणां धीतीकां दीर्घाकृति वर्त लां शयनान्तःप्रमाणेनाग्निप्रज्वालनाय निर्माय संशोप्यामिना प्रदीपयेज्ज्वालयेत् तां धीतीकां मुदग्धायां विधूमायां सत्यां तत्र चोपरि खदादिकं स्थापयित्वा यथोक्तं शय्यामुपकल्पयेत् । तत्र शय्यायां वातनाशनस्नहैरभ्यक्तः सन् प्रावारादिना खवच्छन्नः स्वपन शयानः पुमान् सुखं स्विद्यति। इत्येष सुखः सुखकृतहोलाकस्वेदो महर्षिणा पुनमुना प्रोक्त इति । (१३ )।
उपसंहरति इतीत्यादि। अग्निगुणसंश्रय इति सङ्करादित्रयोदशविधः स्वेद उक्तो भवति ॥२८॥ विस्ताराद बोद्ध व्यं, वेधत इत्यधःखननप्रमाणेन, सुसंस्तीर्ण इति सुष्ठुसंस्तीणे आच्छादिते, शय्यायां खट्रोपरिस्थितायां कूप इति बोदव्यम् ॥ २६॥२७॥
चक्रपाणिः-धीतीकामिति होलाकस्वेदः, धीतीका शुष्कगोमयादिकृतोऽन्याश्रयविशेषः ; यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानां, शयनान्तःप्रमाणेनेति ‘धीतीकां कृत्वा' इत्यध्याहाय्य योज्यं, यथोक्तामिति नातिसान्द्रपस्च्छिदाम् । उपसंहरति---इतीत्यादि। भग्नेगुणमुष्णत्वमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः ॥२८॥
For Private and Personal Use Only