________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः सूत्रस्थानम् ।
६४३ कुम्भी वातहरक्वाथ-पूर्णा भूमौ निखानयेत् । अर्द्धभागं त्रिभागं वा शयनं तत्र चोपरि ॥ स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् । अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुड़ान् ॥ पाषाणान् वोष्मणा तेन तत्स्थः खिद्यति ना सुखम् । सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः ॥ २६ ॥ कूपं शयनविस्तारं द्विगुणश्चापि वेधतः । देशे निवाते शस्ते च कुर्य्यादन्तः सुमार्जितम् ॥
चोपदिश्यते। तद्यथा- “शयानस्य प्रमाणेन भूमिं शस्तां समां तथा। तायित्वा मारुतन दारुभिः सम्प्रदीपयेत् ॥ व्यपोह्य सनिङ्गारान् प्रोक्ष्य चैचोष्णवारिणा। तां भूमिमथ कुर्वीत कोषेयाविकसंस्तराम् ॥ तस्यां निवाते खभ्यक्तः शयानः स्विद्यते सुखम्। रौरवाजिनकोपेय-भावारादेवः सुसंवृतः॥" इति भूस्वेदः (१०) ॥२५॥
गङ्गाधरः-अथ कुम्भीस्वेदविधानमाह -कुम्भीमित्यादि। वातहरदेवदार्खादिकाथेन पूर्णां कुम्भी भूमो खातं तत्कुम्भ्या अर्द्ध निखातं त्रिभागं वा निखातं यथा स्यात् तथा निखातां कुर्यात् । तत्र चोपरि खटादिकं स्थापयित्वा शयनं शय्यामासनं वा नातिसान्द्रपरिच्छदं स्थापयिखाथ तस्यां भूमो निखातायां कुम्भ्यां वातहरकाथपूर्णायां सुसन्तप्तान् लोहगुड कान बहून पाषाणान वा सुसन्तप्तान गुडकान प्रक्षिपेत् । तेनोमणा तस्थस्तदुपरि स्थापितशयनासने स्थितः पुमान् अनिलनाशनः स्नहैः स्वभ्यक्तगात्रः सन प्रावारादिना सुसंसृताङ्गः सन् सुखस्विधति । इति कुम्भीस्वेदः (११) ॥२६॥
गङ्गाधरः-अथ कूपस्वेदविधानमाह-कूपमित्यादि। यावन्मात्रस्थाने शयनमर्हति तावन्मात्रविस्तारं दीर्घाकाररूपं वेश्तोऽवस्तान्निम्नं द्विगुणं कूपं
चक्रपाणिः-शयनं तत्र चोपरीत्यत्र कुम्भीकोपरि शयनं खटादि तथा कर्त्तव्यं यथा कुम्भीका न भज्यते, तत्स्थ इति यथोक्तशयनासनस्थः। कूपमिति कूपमिव कूपगम्भीरत्वेन, द्विगुणमिति
For Private and Personal Use Only