________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४०
[ स्वेदाध्यायः
चरक संहिता | परीतेनापि सता पिण्डिकेषा विमोक्तव्या आ प्राणोच्छ्रासात् । श्यमानो ह्यतः पिण्डिकावकाशात् द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणान् जह्याः, तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः । त्वं यदा जानीयाश्च विगताभिष्यन्दमात्मानं सम्यक् प्रत्र तस्वं दपिच्छं सर्व्वस्रोत विमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, ततस्तां पिण्डिकामनुसरन द्वारं प्रपदेथाः । निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः । अथ व्यपगतसन्ताप
एकपावन शयित्वा तत् पार्श्व परिवर्त्त्यापरपाश्वेन शयीथाः । इत्येवं प्रकारेण यथासुखं शयीथाः । न चेत्यादि । तत्र स्वेदमूर्च्छापरीतेनापि त्वया सता पिण्डिकेषा न विमोक्तव्या न त्याज्या । आ प्राणोच्छ्रासात् यावत् प्राणोच्छ्रासं वर्त्तेत । कस्मादिति ? अत आह - भ्रश्यमान इत्यादि । स्वेदमूर्च्छापरीततया यद् यस्मात् पिण्डिकावकाशात् त्वं भ्रष्टः स्यास्तदा भ्रश्यमानस्त्वं वहिरागन्तुकामः स्वेदमूर्च्छापरीततया द्वारमस्यागारस्यानधिगच्छन् सद्यः प्राणान् जह्याः । तस्मादित्यादि । तस्मात् पिण्डिकामेनां कथञ्चन न मुञ्चेथाः । न च तत्र स्थितो मरिष्यसि । कस्मात् ? यदा त्वं जानीयात् आत्मानं निजं विगताभिष्यन्दं सम्यक् तस्वदपिच्छं सर्व्वस्रोतोविमुक्तं बद्धभूतस्रोतोभ्यो विमुक्त लघुभूतशरीरमपगत विबद्धस्तम्भादिकं स्वं जानीया यदा तदा । तत इत्यादि । ततः परं तां पिण्डिकामनुसरन् द्वारं प्रपदेथाः । द्वारं प्रपद्य निष्क्रम्य च तस्मात् चक्षुषोः परिपालनाथं शीतोदकं सहसा ग्रीष्मार्त्ततया नोपस्पृशेथाः । तर्हि किं कर्त्तव्यमिति ? अत आह अथ व्यपगतेत्यादि ।
इति पूरणे षष्ठी, स इत्यत्र त्वमित्यध्याहाय्यं, जानीया इत्यर्थः ; किंवा जानीयादिति पाठः, उत्तरत्रापि प्रपदेवतेति पाठः; एवञ्च सुगमम् । पिच्छा स्व ेदस्य व पिच्छिलो भागः, सर्वेषु स्रोतः सु विमुक्तमपगतबन्धं सर्व्व स्त्रोतोविमुक्तम्, भपगतविबन्धस्तु अपगतमलविबन्धो बोद्धव्यः ; चक्षुषोः परिपालनार्थमिति - अत्रोपतप्तस्य सहसा शीतजलप्रवेशेन शीतजलपरिहत उष्मा नयनोपघातं करोतीत्यभिप्रायः । अत्र जेन्ताके भूमिविशेषपरिग्रहजलसान्निध्यादयो मङ्गलार्था ; जलसान्निध्यन्तु
।
For Private and Personal Use Only