________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्याय:]]
६३६
सूत्रस्थानम् । कूटागारस्य चतुष्किष्कुमात्र पुरुषप्रमाणं भृन्मयं कन्दुसंस्थान बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्। तञ्च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्। स यदा जानीयात् साधुदग्धानि काष्ठानि गतधूमान्यवतप्तश्च केवलमग्निना तदग्निगृहं स्वं दयोग्येन चोमणा युक्तमिति। तत्र नं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्न प्रवेशयेत, प्रवेशयंश्चैनमनुशिष्यात्-सौम्य ! प्रविश कल्याणायारोग्याय चेति। प्रविश्य चैनां पिण्डिकामधिरुय पापियार्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्छा
मध्य इत्यादि। अस्य कूटागारस्य मध्ये चतुर्दिशि षोड़शहस्तमिते कृते तदेकहस्ते पिण्डिकयाते शेषं यावत् स्थानमुत्तेत तावत्स्थाने चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं यया चुल्लिकया लोके तण्डुलादीनि भृजति तद्भज्जनचुल्लिका कन्दुनामोच्यते। तदाकारं बहुमूक्ष्मच्छिद्रमग्नि प्रज्वालाकृतज्वलदङ्गारस्थानकोष्ठस्तम्भं कारयेत्। तस्योद्ध मुखाच्छादनार्थमेकं पिधानश्च कारयेत् । तञ्चेत्यादि । तञ्च कोप्ठस्तम्भं खादिरादीनां काष्ठानां पूयिखा खादिरादिकाप्टः पूरयित्वा दीपयेत् प्रज्वालयेत् । तृप्तार्थयोगे करणे पष्ठी विभापावचनादिह करणे पष्ठी। स इत्यादि। स वैद्यो यदा जानीयात् काष्ठानि मुदग्यानि गतधृमानि अतीतधूमानि । अग्निना खवतप्तश्च केवलं कृतस्नं तदग्निगृहं स्वेदयोग्येनोप्मणा युक्तञ्चेति जानीयात् । तत्रेत्यादि। तदा खल्वेनं स्वेदं पुरुपं वातहरद्रव्यसाधितस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं कृखा तद्गृहं प्रवेशयेत् । वैद्यस्वनं पुरुषमीदृशप्रकारेण प्रवेशयन् यदा प्रवेशयति तदा प्रविशन्तमेनं पुरुषमनुशिप्याद यथा तद्गृहं प्रविश्याचरेत् । तदनुशासनमाह---सौम्येत्यादि । भोः सौम्य ! प्रविशैतद गृहं कल्याणायारोग्याय चेति । पविश्येत्यादि। प्रविश्य यथा वत्तेत भवान् तद् ब्रूमः । गृहमेतत् प्रविश्य चैनां पिण्डिकामधिरुह्यारोहणं कृखा पार्थापपार्श्वभ्यां यथासुख खं शयीथाः । आ कवाटादित्यनेन द्वारपर्यन्तं लक्षयति, किकुर्हस्तः, पुरुषप्रमाणमित्यङ्गन, कुम्भः कुम्भाकाराऽग्निस्थानम्, अङ्गारार्थ कोष्टोऽवकाशो विद्यते यस्मिन् सोऽङ्गारकोष्ठकः स एव स्तम्भः, खादिराणाम्
For Private and Personal Use Only