________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८ चरक-संहिता।
[ स्वेदाध्यायः दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णभृत्तिके सुवर्णवृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिण पश्चिमे वा सूपतीर्थ समसुविभक्तभूमिभागे च, सप्ताष्टौ वाऽरत्नीः सूपकम्योडकात प्राङमुखमुदङमुखं वाभिमुखतीर्थ कूटागारं कारयेत, उत्सेधविस्तारतः परमरत्नीः षोड़श, समन्तात् सुवृत्तं नृत्कम्र्मसम्पन्नमनकवातायनम् । अस्य कूटागारस्यान्तः समन्ततो भित्तिमरनिविस्तारोत्सेषां पिरिडकां कारयेदा कपाटात। मध्ये चास्य वासग्रामात् पूर्वस्यां दिशि अथ वोत्तरस्यां दिशि यो भूमिभागो गुणवान् भूरुहादीनां सम्यगवलवत्त्वादिरूपेण जनितखेनानुमीयते प्रशस्तश्च दृश्यते मनोरमतया। तथा कृष्णमृत्तिकः सुवर्णमृत्तिको वा दृश्यते तस्मिन् भूमिभागे परीवापादीनां जलाशयानामन्यतमस्य जलाशयस्य दक्षिणे कूले पश्चिमे वा कूले। मुपतीर्थे सुष्टु समीपे तीर्थ जलपान्तभागो यस्य तत्र । मुविभक्तभूमिभागे सुष्टु खल्वनुच्चनीचरूपेण विभक्त भूमिभागे स्थाने।। ___ सप्ताष्टाविति। उदकात् तज्जलाशयजलमवधीकृत्य सप्तारनीरष्टौ वारनीः । सूपक्रम्य सुष्ठु आरभ्योपरिष्टात् पश्चिमे कूले जलायतीर्थमभिमुखं प्राङ्मुखं कूटागारं कारयेदथवा दक्षिणे कूले तत्तीर्थजलमभिमुखीकृत्योत्तरमुखं कूटागारं कारयेत् । कूटं रद सुसंकृतमगारं कूटागारं जेन्ताकम् । यादृशं कूटागारं कारयेत् तदाह-उत्सेधेत्यादि। उत्सेधतः उच्चतः परं पोड़शाऽरनीविस्तारतश्च षोड़शारनीाप्य समन्तात् सुटत्तं गोलाकारमनेकवातायनं बहुगवाक्षं मृत्कर्म सम्पन्नं मृत्तिकया भित्तिं कृखालेपनादिना सम्पनिर्मितं गृहं कार्यम् । __ अस्येत्यादि। अस्य कूटागारस्यान्तमध्ये भित्तेः समन्ततश्चादिशि अरनि मात्रोचामरनिमात्रविस्तारां पिण्डिकां कारयेत् । कूटागारस्यास्य कपाट: द्वारपश्यन्तं मृत्तिकया पिण्डिका हस्तमात्रोच्चां हस्तमात्रविस्तारां कारयेत् । वा इति ग्रामाद बोद्धव्यः, गुणवतीति सम्यक्प्ररोहादियुक्तत्वेन, प्रशस्तभूमिभागत्वं तुपाङ्गारादिरहितत्वेन, परीवापो दीर्घिका, सुष्टु च उपसमीपे तीर्थ यस्य तस्मिन् सूपतीर्थे, अरनिहस्तः, प्रालमुखमिति पश्चिमे, उदङ्मुखमिति दक्षिणे, एवं ह्यभिमुखं तीर्थ स्यात्, कूटागारमिति वर्तुलागारम्,
For Private and Personal Use Only