SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४श अध्यायः सूत्रस्थानम् । ६३७ वातिकोत्तरवातिकानां पुनर्मलादीनामुत्क्वाथैः सुखोष्णः कुम्भीर्वर्षनिकाः प्रनाड़ीर्वा पूयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः ॥ १६ ॥ वातहरोतकाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः ॥ २० ॥ अथ जेन्ताकं चिकीर्षर्भमि परीक्षेत। तत्र पूर्वस्यां गङ्गाधरः-- अथ परिपेकस्वेदमाह-वातिकेत्यादि । वातिकोत्तरवातिकानीति वातिकानि केवलवातहराणि द्रव्याणि। तथोत्तरवातिकानि प्रबलवातत्रिदोपहराणि च यानि द्रव्याणि तेषाम् । मूलादीनां मूलफलपत्रशुङ्गवल्कादीनाम्। सुखोष्णरुन्काथः शरीरसहोष्णैः। वर्ष निकाः कुम्भीः पूरयित्वा अथवा प्रनाड़ीः प्रकृष्टा नाड़ी नलिका निविष्टा यासु कुम्भीषु ताः, पूरयिता यथाह सिद्धस्नेहाभ्यक्तगात्रं यथादोषव्याधिपुरुषप्रकृतिदेशकालं हितद्रव्यसाधितघृतादिस्नेहाभ्यक्तगात्रं पुरुषं वस्त्रावच्छन्नं सव्वेगात्रं वस्त्रेणाच्छाद्य परिषेचयेत् । इति परिपेकस्वेदः (४)॥१९॥ गङ्गाधरः--अथावगाहस्वेदमाह-वातहरेत्यादि। वातहराणां द्रव्याणामुत्काथः क्षीरं तैलं घृतं पिशितरस उष्णसलिलश्च तथा नाड़ीस्वेदोक्तो ग्राम्यानपौदकमांसादिकाथो वरुणादिकाथो भूतीकादिकाथश्च तैः पूरितकोष्ठे. ऽवगाहस्तु यथोक्त एवावगाहः स्वेदः (५) ॥२०॥ गङ्गाधरः--अथ जेन्ताकस्वेदविधानमाह-अथ जेन्ताकमित्यादि । अथेत्यानन्तर्याथें। जेन्ताकं कूटागारविशेषप्रवेशजातस्वेदं चिकीर्षः कर्तुमिच्छन् वैद्यस्तज्जेन्ताककरणयोग्यां भूमि परीक्षेत। तत्र जेन्ताके स्वेद्यपुरुषस्य चक्रपाणिः-- परिषेकविधिमाह-वातिकोत्तरेत्यादि। वातिकानि वातहरणानि, उत्तरवातिकानि उत्तरवाते प्रधानवाते वातश्लेष्मणि हितानीह ग्राह्याणि, वालिका अल्पघटी, सहस्रधारा इत्यन्ये ; प्रणाड़ी वेणुनलनाड्याद्याः। यथोक्त एवेति लोकप्रसिद्ध इवेति, अवगाहोऽवगाहस्वेदः ॥ १९॥२०॥ चक्रपाणिः-जेन्ताकविधिमाह-अथेत्यादि । अथशब्दो मङ्गल आनन्तर्ये वा । पूर्वस्यामुत्तरस्यां For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy