________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६ चरक-संहिता।
(स्वेदाध्यायः उतक्कथितानां नाड्या, शरेषीकावंशदलकरञ्जाकपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीघया व्यामाध्यर्द्धदीर्घया* वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतछिद्रया द्विस्त्रिा विनमितया वातहरसिद्धस्नेहाभ्यक्तगात्रो वाष्पमुपहरेत्। वाष्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविदहन सुखं स्वं दयतीति नाड़ीस्वेदः ॥१८॥ कुम्भ्यां वाप्पमनुद्वमन्त्यां तस्याः कुम्भ्या मुरखे शरावादिना पिधाय लिप्ते सति वाष्पनिर्गमाभाववत्यामुत्कथितानां वाप्प शरेपीकादिकृतया नाड्या नलिकया तस्याः कुम्भ्या मुखे संलग्नया वातहरद्रव्यसिद्धस्नेहाभ्यक्तगात्रः पुमानुपहरेत् ।
तत्र नाड़ीप्रकारमाह- शरेपीकेत्यादि। शरेपीका शराग्रभागे या सा ईषिका तस्याः पत्रम्। वंशस्य पत्रम् । करञ्जपत्रमर्कपत्रमेषामन्यतमपत्रकृतया नाड्या गजाग्रहस्तसंस्थानया हस्तिनः शुण्डाग्रतुल्यशुङ्गाकारवृत्ताग्रभागया। व्यामदीर्घया प्रसारितवाहुद्वय पुरुषपरिमितदीर्घया। व्यामाध्यर्द्धदीर्घया सार्द्धव्यामदीर्घया वा व्यामस्य चतुर्भागैकभागमितमूले परिणाहस्रोतो व्यामस्याष्टमभागमिताग्रपरिणाहस्रोतो यस्यां तया। सर्वतश्चतुर्दिग्भागे तस्या नाड्या यावन्ति च्छिद्राणि तावन्ति वातहरपत्रैरैरण्डादिपत्रैः संतृतानि यस्यास्तया नाड्या द्विर्वा त्रिर्वा वक्रीकृत्य विनमितया कुम्भीमुखे संलग्नया वाष्पमुपहरेत् । द्वित्रिविनामेन वाष्पस्वनूई गामी द्वित्रिभङ्गेण विहतचण्ड वेगश्च सन् वचं चर्म खल्वविदहन सुखं स्वेदयति नरमिनि नाड़ीस्वेदः । इति (३) ॥१८॥ सम्बन्धः । नाडीकरणविधिमाह ---शरेषीकेत्यादि । वंशदलो बंशविदलः, गजाग्रहम्तसंस्थानत्वं नाड्या अग्र एव बोद्धव्यं, व्यासस्तिर्यविस्तृतबाहुद्वयप्रमाणं, व्यामदीर्घत्वं नाड्या बहलस्वेदे कर्त्तव्यम् ; व्यामचतुर्थभागेन व्यामारभागेन च मूले अग्रे च यथासंख्यमानं नाड्या वेदितव्यं, परिणाहेन वेटनेन स्रोतो यस्याः सा तथा। यथोक्तनाड़ीकरणगुणमाह-वाप्पो हीत्यादि । विहतचण्डवेगवं नाडीकाया दीर्घत्वेन वक्रत्वेन च बोद्धव्यम् ॥ १८ ॥
* व्यामाई दीर्घयेति चक्रश्तः पाठः।
For Private and Personal Use Only