________________
Shri Mahavir Jain Aradhana Kendra
१४श अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् । शुकशमीधान्यपुलाकानां वेशवारणाय सकृशरोत्कारिकादीनां वा प्रस्तरे कौषयका विकोत्तरच्छदे पञ्चाङ्गलोरुवूकार्कपत्रप्रच्छंदे व स्वभ्यक्तसर्व्वगात्रस्य शयानस्योपरि स्वेदनं प्रस्तरस्वेद इति विद्यात् ॥ १७ ॥
स्वेदद्रव्याणां पुनर्मूलफलपत्र शुल्कादीनां मृगशकुनिपिशितशिरः पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रनीरादीनां वा कुम्भ्यां वाष्पमनुद्वमन्त्याम्
Acharya Shri Kailassagarsuri Gyanmandir
*
गङ्गाधरः- प्रस्तरस्वेदमाह शुकेत्यादि । शुकं धान्यम् । शालिषष्टिकाशुधान्ययवगोधूमादिकञ्च । शनीधान्यं सुपयोनि मुद्रमापादि । पुलाकस्तुच्छधान्यं तण्डुलहीनं चिप्पटरूपम् । वेशवार: पारिभाषिकः - “निरस्थिपिशितं खिन्नं पिष्टं गुड़घृतान्वितम् । कणामरिचसंयुक्तं वेशवार इति स्मृतम् ॥” कुशरा च तिलमापकृता यवादः । उत्कारिका माषादिकृतपालकः । आदिना तिलमाषादीनां पूर्वोक्तानां यथाहमुष्णीभूतानां प्रस्तरे विस्तृतीकृते घने काष्ठादिविस्तारीभूते स्थाने लेपिते काँपेयाविकवस्त्रेणोत्तरमुपरि प्रच्छाय शय्यारूपे कृते । अथवा पञ्चाङ्गलादीनां पत्रैरुपरि प्रच्छाय शय्यारूपं कृते स्वभ्यक्तसर्व्वगात्रस्य तत्र शयानस्य यदुपस्वेदनं तत् प्रस्तरस्वेद इति विद्यात् ( २ ) ||१७|
गङ्गाधरः-- अथ नाड़ीस्वेदप्रकारमाह स्वेदद्रव्याणामित्यादि । स्वेदद्रव्याणां स्वेदोपगानां दशानां मूलफलपत्रशृङ्गबल्कादीनाम् । तथात्र पूर्वोक्तानां ग्राम्यापौदकमांसादीनां वरुणादीनाञ्च तथा मृगशकुनिपिशितादीनामुष्णस्वभावानां वा यथा यथादोपादिकमम्ललवणघृतादिस्नेहोपसंहितानामम्लादियुक्तानां मूत्रक्षीरादीनां गवादिमूत्राणां गव्यादिक्षीरदधिमस्तुतक्रादीनां तैः पूरितायां
६३५
चक्रपाणिः - पुला कस्तुच्छधान्यकम्, उत्कारिका माषादिकृतमूषिकोत्काराकृतिव्यञ्जनविशेषः, प्रस्तीर्य्यत इति प्रस्तरः शयनप्रमाणेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे कौषेयाविकोत्तरप्रच्छदे कौषेयाविकपिहित इत्यर्थः ; पञ्चाङ्गुल एरण्डभेदः ॥ १७॥
:
- स्वेदनेत्यादिना नाड़ीस्वेदमाह । स्वेदनद्रव्याणि स्व दोपगगणोक्तानि, इह च नाड़ीवेदकाथार्थमुक्तानि ; शिरः पदो मस्तकम् ; वाष्पमनुद्रमन्त्यामित्यनेन कथनकाले वाष्पो यथा निर्यात तथा कर्त्तव्यमिति दर्शयति ; उत्क्वथितानां वाप्पं स्नेहाक्तगात्रः सन् नाड्या उपहरेदिति मूलफलपत्रभङ्गादीनामिति चक्रपाणिघृतः पाठः ।
For Private and Personal Use Only