SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३४ चरक संहिता | | स्वेदाध्यायः रात्रौ बद्धं दिवा मुञ्चेत् मुञ्चेद्रात्रौ दिवाकृतम् । विवाहपरिहारार्थं स्यात् प्रकर्षस्तु शीतले ॥ १४ ॥ सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम् । जेन्ताकोऽश्मघनः कर्षः कुटी भूः कुम्भिकैव च । कूपो होला इत्येते स्वेदयन्ति त्रयोदश । तान् यथावत् प्रवच्यामि सर्व्वानेवानुपूर्व्वशः ॥ १५ ॥ तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदन' सङ्करस्वेद इति विद्यात् ॥ १६ ॥ I अथ बन्धन मोचनकालावाह - रात्रावित्यादि । रात्रौ प्रलेपं दत्त्वा बद्धं दिवा मुञ्चेत् विदाहपरिहारार्थम् । एवं दिवाकृतं प्रलेपं दत्त्वा बन्धनं रात्रौ मुञ्चेत् विदाहपरिहारार्थम् । तस्य प्रकर्षस्तु शीतले काले हिमे शिशिरे च । इति ॥ १४ ॥ गङ्गाधरः --अथ स्व दानुपसंहरति सङ्कर इत्यादि । सङ्करादय इत्येते त्रयोदश स्वेदयन्ति । तांस्त्रयोदश स्वेदान सर्व्वाननुपूर्व्वशः सङ्करादुरक्तक्रमेण यथावद् येन प्रकारेण तेषां विधानं तथा प्रवक्ष्यामि ।। १५ ।। गङ्गाधरः_ अथैषां स्वेदानां तान् प्रकारानाह तत्रेत्यादि । तत्र सङ्करादिषु त्रयोदशसु स्वेदेषु मध्ये यथोक्तैस्तिलमापादिभिः पिण्डैवते । गोशकदादिभिः पिण्डः कफे । तदुभयैर्मिलितैः पिण्डेवति । वनान्तरितैरवखान्तरितैर्वा यथार्हमुष्णीकृतैरुपस्वेदनं सङ्करस्वेदः सङ्करेण स्वेद इति विद्यात् ( १ ) ॥ १६ ॥ उपनावेदे , बन्धमोक्षविधि दर्शयत रात्रौ बन्द्वमित्यादि । दिवाकृतमित्यत्र मिति शेषः विदाही रक्तादिविवाहः; शीतल इत्यत्र काल इति शेषः प्रकर्षउक्ताद् बन्धनकालादधिककालत्वं बन्धनस्य ॥ १४ ॥ ; ; चक्रपाणिः सम्प्रति साग्निस्वेदानां लक्षणमभिधातु सङ्करादीन् स्वेदान् नामतस्तावदुद्दिशति - सङ्कर इत्यादि । सङ्करादिस्वेदाश्रायुर्वेद परम्परा सिद्वाः, तत्र क्वचिन्नाड़ीस्वेदादौ नाड्या प्रणीत इत्यन्योऽप्यनुसरणीयः, जेन्ताकादयश्चान्त्रयनिरपेक्षा एव ॥ १५ ॥ चक्रपाणिः -- पिण्डैर्ययोक्तैरिति तिलमापादिपिण्डैः, तथा गोखरादिग्रन्थोक्तपुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम् ॥ १६॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy