________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः सूत्रस्थानम् ।
६४१ क्लमस्तु मुहर्तात् सुखोष्णन वारिणा यथान्यायं परिषिक्तोऽनीयाः ; इत्येष जन्ताकः स्वेदः ॥ २१ ॥
शयानस्य प्रमाणन घनामश्ममयीं शिलाम् । तापयित्वा मारुतत दारुभिः संप्रदीपितैः ।। व्यपोह्य सानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा । तां शिलामथ कुर्वीत कौषयाविकसंस्तराम् ॥ तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन विद्यति ना सुखम् । रोरवा जिनकोषय-प्रावारादः सुसंवृतः ॥ इत्युक्तोऽश्मघनस्वेदः कर्षस्वेदः प्रवक्ष्यते । खानये श्छयनस्याधः कषू स्थानविभागवित् ॥
मुहूर्तात् मुहत्तं कालं स्थिवाऽपगतस-तापक्त मस्तु सन् मुखोष्णेन वारिणा यथान्यायं परिपितः स्नातोऽश्नीया इति । एष जेन्ताकस्वेदः (६) ॥२१॥
गङ्गाधरः-अथाश्मवनस्वेदविधानमाह-शयानस्यत्यादि। शयानस्य यः पुरुषः शयिता विदात् तस्य पुरुषस्य समानप्रमाणेन दीधीं यथा विस्तारवतोश्च अश्ममयीं प्रस्तरमयीं शिलां घनां वहलामग्निसन्तापेन पुरुषारोहणे तद्भारान्न भग्ना स्याद् यथा तथाभूतां वातघ्न देवदाादिभिर्दारुभिः सम्प्रदीपितैरग्निना प्रचालितेस्तापयिता सानङ्गारान व्यपोह्य दूरीकृत्योष्णवारिणा प्रोक्ष्य अभ्युक्ष्य तत्र शिलायां कोषयवस्त्रेणाविककम्बलेन वा संस्तरं शय्यां कृता शय्यायुक्तायां तस्यामुष्णशिलायां पुमान स्नेहेन स्वभ्यक्तसङ्गि सन् रोरवाजिनादिभिः सुसंतश्च सन शयानः सुख स्विधति । इत्यश्मघनस्वेद उक्तः (७)।
अथ कप स्वेदविधानं प्रवक्ष्यते - खानयेदित्यादि। कयूं हण्डिकाकारां मृत्तिकाम्। शयनस्यायः खानयेत् तां हण्डिकाकारां गोलाकृतिगर्तरूपां कर्पू स्वेयमानस्य दर्शनेन इष्टेः परिपालनार्थञ्च स्यात्, तथा स्वेदाति योगप्रतिक्रियार्थे कूटागारस्य जलसान्निध्ये सुखेन करणार्थञ्च ॥२१॥ चक्रपाणिः-कौरवं कार्पासं, कर्पूरभ्यन्तरविस्तीर्णोऽल्पमुखो गर्तः, अनत्युत्सेधविस्तारामिति * “रौरव” इत्यत्र "फौरव' इति चक्रः ।
For Private and Personal Use Only