________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३
१म अध्यायः
सूत्रस्थानम् । मध्यनिधनोऽत्र रसव्यापत्सम्पत्ती जीवनमरणे च मनुष्यादीनामायत्ते। स मूक्ष्मामपि कलां न लीयते इति कालः, कलयति कालयति वाभूतानीति काल इति” । एष च कालो नाम हरिर्वासुदेवो विष्णुनामकालानुपविष्टादव्यक्तादव्यक्तरूपः परः पुरुषः परव्योमरूपः शिवः सत्त्वादिगुणत्रययोगाच्छीतोष्णवर्षलक्षणः संवत्सर एव कार्ये कारणसज्ञा । कालचक्रस्थितं हि सर्व जगत् । तद् यथा-ब्रह्म निष्क्रिय निर्गुणं पूर्वमासीत् तच्च प्रथमं लोहितमिव तेजो भूखा शुक्ला इवापोऽसृजत ताश्चापः कृष्णमिवान्नमसृजन्त। तास्तेजोऽबन्नाख्यास्तिस्रो देवता अनुपविश्य तद् ब्रह्म प्रथमं लोहितशुक्लकृष्णवदाभासमाना गायत्री वाग्देवता खल्वजा बभूव, सा चा न परव्योमरूप आदिपुरुषः शिवो महाकाल ईश्वरः सव्वत्र व गायत्रीरूपज्योतिष्मान् स्वाङ्ग लिमानेन चतुरशीत्यङ्गलस्रिपात् पुरुषस्तस्य पञ्चाशदङ्ग लिमितः पादादिनाभिपय॑न्तोऽव्याकृतदेहः तद देशस्थ एष सत्यो वासुदेवः कालः स एकांशेन चिय खा चित्सम्प्रसादः क्षेत्रको नाम द्वितीयोऽजः पुरुषो बभूव, तच्चिदसम्प्रसादो गुणांशमिलितसमतमोरजःसत्त्वरूपप्रधानं ब्रह्मा नाम स्वयंबभूवेति, तेन च कालेन भ्राम्यमाणं प्रशनं क्षेत्रवाधिष्ठितं त्रिगुणतो वृद्धिलक्षणं विषमदशमांशेनाव्यक्तसमत्रिगुणरूपं भूखा पुनरव्यक्तं नामानन्दमय आत्मा बभूव, स खलु संहतरूप आत्मा द्रव्येषु पठितः। स पुनः समत्रिगुणवैषम्यरूपो महानेव स चोच्यते, इत्येवमहङ्कारादयः सवें भावाः कालेन सततं भ्रमता भ्राम्यमाणाः क्रमेण परिणता आसन्निति तत्त्वम् । वैशेषिके कणादेनाप्युक्तम् । “अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि ।” द्रव्यखनित्यत्वे वायुना व्याख्याते। तत्त्वं भावेन व्याख्यातं नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति। दिशश्च ति–दिशत्युपदिशति लोकानयमस्मात् पूर्वः पश्चादयमस्मादित्यादिरूपेण याभिस्ता दिश इति, तथाविधोपदेशव्यापारस्वभावा अप्रतिघातरूपाः। बहुवचनं नियमेनापेक्षत्वेन बहुखख्यापनार्थम् । एतेन चैका दिक् प्राच्यादुरपाधिमती न नानेतिपरवचनं नानात्मा सन्नप्येक आत्मेतिवत् नियमतो वस्वन्तरापेक्षखादिहोक्तं दिश इति । उक्तञ्च वैशेषिके शास्त्र कणादन। "इत इदमिति यतस्तद्दिश्य लिङ्गम् । आदित्यसंयोगाद्भतपूर्वाद्भविष्यतो भूताच्च च द्रव्यस्य वक्ष्यति ; किञ्च सर्वप्रधानं यजीवितं तदेव संयोगगुणरूपमित्यने तत्र गुणग्रहणसूचनं ; स च संयोगगुणः “सत्त्वमात्मा" इत्यादिना प्रथममुक्त एव ; विशेषगुणेषु तु द्रव्य प्रधानमिति द्रव्यमुच्यते। खादीनीत्यादावात्मा कस्मात् प्रधानभूतोऽपि प्रथमं नोक्तः ? उच्यते
For Private and Personal Use Only