________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवितीयः खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः।
सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ॥ २०॥ गङ्गाधरः-ननु तत्र सर्व प्रतिष्ठितमिति यदुक्तं तत्सर्व किन्तावदित्याकाङ्क्षायां सत्त्वात्मशरीरसमुदायस्य यद्यन्मयत्वं प्रकृतिभूततत्तत्कारण तावद्वक्तु प्रधान कारणेषु द्रव्यमादौ निर्दिशति न तु पूचौदिष्टसामान्यविशेषादिक्रमेण । खादीनीत्यादि।-सत्यप्यात्मनः सर्वेभ्यः प्राधान्ये श्रोत्रादीन्द्रिययोगेणैव चैतन्यहेतुखादिन्द्रियाणां भूतमयत्वेनादौ भूतानां निर्दे शस्ततश्चात्मनस्ततश्च मनसोऽप्यात्मनः शरीरपरिग्रहे मनःक्रियाया हेतुखात् । कालदिशोः सव्र्वत्रैव परिणामि-समवायि-हेतुखेन पश्चानिर्देशः कृतः। खादीनीति कतिधापुरुषीये बक्ष्यन्ते-“महाभूतानि खौं वायुरग्निरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः" इत्यनेन तत्रात्यनभिव्यक्तशब्दतन्मात्रमत्राकाश विवक्षितं न खेतदप्रतिघातस्वभावमाकाशम् । क्रमेण स्थूलाव्यक्तस्पर्शतन्मात्रचलस्वभावो वायुः। 'मिलितरक्तश्वेतकृष्णसाधारणभूतम् अव्यक्तरूपतन्मात्रमयोष्णास्वभाव तेजोऽग्निः। ततः स्थूलाव्यक्तरसतन्मात्रद्रवत्वस्वभावा आपः। अव्यक्तगन्धतन्मात्रमयी खरवस्वभावा क्षितिः। इत्यत्यनभिव्यक्तशब्द इवाकाशादिषु पञ्चस्वेव श्लक्ष्णखरवादयो गुणा अत्यनभिव्यक्ता एव सन्ति ये पाश्चमौक्तिकेषु व्यक्ता भवन्ति । अत्यनभिव्यक्तत्वेऽपि शब्दस्याफाशगुणवेनोपदेशः सगुणमेव द्रव्यमुत्पद्यते न तु निगुणमिति ज्ञापनार्थम् । वैशेषिके तु नाकाशस्य शब्दगणोऽत्यनभिव्यक्तवादुक्त इति। पूर्वपूर्वभूतानुपविष्टोत्तरोत्तरभूतेषु वाय्वादिषु स्थूलेष्वेषां प्रकृतिभूतहेतुत्वात् तानि पूर्वपूर्वानुप्रविष्टानि वायवादीनि चखारि भूतान्यत्र न वाय्वादिशब्दवाच्यानि। आत्मा चेतनाधातुः संसारसंसवनादिस्वभावो निष्क्रियो निगुणः सत्त्वांदियोगेन चैतन्यहेतुः प्रकाशरूपोऽव्यक्ताख्यः । मनवाणु सर्बेन्द्रियचेष्टाहेतुभूतं स्वार्थात्मसम्पदायत्तचेष्टात्तुस्वभावं सत्तुप्रधानत्रिगुणविकारात्मकमूर्त्तिमत्। कालश्चक्रवदभ्रमणेनाविरतगमनशीलवस्वभावः सर्वभावपरिणतिहेतुः। सुश्रतेऽप्युक्तं- कालो नाम भगवान् स्वयम्भूरनादि
चक्रपाणिः-सम्प्रति गुणाभिधानं क्रमप्राप्तमुल्लङ्घय द्रव्याणि निर्दिशता गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते -सूत्र च सामान्यञ्च विशेषल्चेत्यादौ गुणानादौ निर्दिशता गुणानामेव रसादीनां प्रायः शास्त्र कार्मकत्वमुपदय ते, अत एवान यभद्रकाप्यीये मधुरादिरसद्वारा सर्वगुणान् कर्माणि
For Private and Personal Use Only