SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२८ चरक-संहिता। { स्वेदाध्यायः विदग्धभ्रष्टब्रनानां विषमद्यविकारिणाम्। श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम् ॥ पुंसां वातश्लेष्मजे वाते कफे वा न स्वेदमवचारयेत् । कपायनित्याः पाचनादिकपायाणां नित्यसेविनः। मद्यनित्याः सततमद्यसेविनः। रक्तपित्तिप्रभृतीनां वमनविरेचने कर्तव्ये संशोधनीयस्वेदवेऽपि प्रतिषेधोऽयम् । पित्तिनामिति पित्तप्रकृतीनां पित्तव्याधिमताञ्च। सातिसाराणामतिसारवताम । मधुमेहिनामिति सबमेहिणां विशेषेण मधुमेहिनाम् । प्रमेहस्य देहशिथिलीकरखेन प्रमेहकृतशिथिलदेहस्य पुनर्देहशिथिलीकरस्वेदो न युक्तः स्यात् । पित्तमेहिनामिति यत् पुनरुक्तं तत् पित्तसम्बन्धे विशेषेण प्रतिषेधार्थमिति कश्चित् । तन्न तन्त्रकत्तरभिप्रतम्। मेहिनामिति करणेनैव सिद्धेः। तस्मात् मधुमेहिनामिति ओजःसंसृष्टवायुजमधुमेहिनां कालेनाप्रतिकृतले वायुना मधुरस्यौजसः प्रदुष्टया मधुरखापन्नस+मेहवतां स्वेदेन पुनरोजसो द्रवीभावेणाधिकक्षरणसम्भवे प्रतिषधोऽयम्। पुनः पित्तमेहिनां स्वेदप्रतिषेधः । शेषाणां कफपित्तादिमेहानां सर्वेषां स्वेदप्राप्तौ कृत इति तत्त्वम् । विदग्धभ्रष्टबनानाम् । ब्रन्न गुदं विदग्धं पक भ्रष्टं वहिनिर्गतं वा येषां तेषां पक्कगुदबलीनां गुदभ्रंशवताश्च । मद्यनित्यानामित्युक्त्या मद्यामद्यकृतसव्वव्याधिषु प्रतिषेधो मद्यनित्यानां कृतः। पुनर्मद्यविकारिणामितिवचनेनानित्यमद्यानां मद्यकृतविकारे स्वेदप्रतिषेधः कृतः। श्रान्तानां श्रमवताम् । नष्टसंज्ञानाम् वाते च स्वेदो विहित एव, तत् कथं कषायनित्यं प्रति स्वेदनिषेध इति, तन्निरस्तं स्यात् ; किंवा, कषायनित्या रुक्षातिस्तब्धगात्रा भवन्ति कषायस्य विरुक्षकस्तम्भकत्वेन, ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कपायनित्यनिषेधः। रक्तपित्तिनामविधानादेव स्वेदे निपिढे पुनः स्वेदनिषेधो रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भवति तत्रापि स्वेदनिषेधार्थ तथा रक्तपित्तिनां वमनविरेचनाङ्गतया प्राप्तस्वेदप्रतिप्रसवनिषेधार्थञ्च ; एवं पित्तमेहिकामल्यादिष्वपि व्याख्येयम् । पित्तिनामिति पित्तप्रकृतीनां, मधुमेहशब्देन सर्व एव मेहा गृह्यन्ते ; मधुमेहशब्दो हि सर्वेष्वेव मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयम्, मेहेषु च सर्वेष्वेव शरीरशैथिल्यप्रवृत्तेषु विशेषतः शरीरशैथिल्यहेतुत्वेन स्वेदो न युज्यते ; पित्तमेहिनामिति तु पुनरभिधानं पित्तसम्बन्धेन विशेषप्रतिषेधतादर्शनार्थम् ; व्रनो गुदः, मद्यविकारिणामिति मग्रनित्यस्य वात For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy