________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः सूत्रस्थानम् ।
હર૭ पित्तप्रकोपो मूर्छा च शरीरसदनं तृषा। दाहः स्वेदाङ्गदौर्बल्यमतिविन्नस्य लक्षणम् ॥ उक्तस्तस्याशितीये यो टिमकः सर्बशो विधिः । सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः ॥६॥ कषायमनित्यानां गर्भिण्या रक्तपित्तिनाम् ।
पित्तिनां सातिसाराणां रुक्षाणां मधुमेहिनाम् ॥ स्तम्भगौरवे च वर्तेत इत्यत आह-स्तम्भगौरवनिग्रहे इति। एवं सति यावत् न शरीरं मृदु स्यात् तावत् स्वेदयेत् । शरीरस्य माइवे च सञ्जाते दोषस्य अविनिर्गमे स्वेदतो विरामे पुनः शीतशूलादिसम्भवः स्यात् । अत उक्तं-स्वेद सञ्जाते धर्मे सम्यगजाते स्वेदनाद्विरतिविरामो मता, इति स्वेदस्य सम्यगयोगलक्षणम् । अतिस्वेदलक्षणमप्येतेन ज्ञापितम्। शीतशूलव्युपरमाभावे स्वेदनाद्विरतिरसम्यगयोगलक्षणम्। स्वेदमिथ्यायोगलक्षणमप्यन्यथा स्वेदः करणमिति तयोलक्षणं स्वयं मुक्तकण्ठेनोक्तम् ॥ ५ ॥
गङ्गाधरः--अथातिस्वेदलक्षणमाह-पित्तप्रकोप इत्यादि । स्वेदाङ्गदौर्बल्यमिति स्वेदातिप्रत्याजदौर्बल्यमिति अतिस्विन्नस्य लक्षणम् ।
अस्यातिस्वेदव्यापचिकित्सामाह--उक्त इत्यादि। तस्याशितीयेऽध्याये यो टिमको विधिरुक्तः स विधिः सव्वंशो यावानेव खलु मधुरः स्निग्धः शीतलश्च तावानेवातिस्विन्नस्य कर्तव्यः। न तु मद्यमल्पं न वा पेममथवा सुबहृदकमिति मद्यविधिः कत्तेव्यः ।।६।।
गङ्गाधरः.. अथ किं सनिव पुरुषान् वातश्लेष्मणि वाते वा कर्फ वा स्वेदयेदिति ? अत आह-कपायमद्यनित्यानामित्यादि। कषायनित्यादीनां एव स्वेदनिवृत्तिविपयशीतादिव्युपरमोत्पादः स्वेदस्य सम्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्व स्वेदानिवृत्तिविपयोऽयोगलक्षणमुक्तं भवतीति नायोगलक्षणानभिधानमुद्भावनीयम् ॥५॥
चक्रपाणिः-अतिस्विन्नचिकित्सितमाह-उक्त इत्यादि । प्रैष्मिकविधिरित्यनेन लब्धे पुनर्भधुरः शीतल इत्यादिवचनम्, “मद्यमल्पं न वा पेयम् इत्यत्रोपदिशमद्यपानस्य प्रतिषेधार्थ मधुरशीतादियोगविशेषविधानार्थञ्च ॥ ६॥
चक्रपाणिः-अस्वेद्यानाह-पायेत्यादि। कषायद्व्यकृतं मदंघ कषायमद्यम्, किंवा कषायशब्दोऽमधुरवचनः, तेन, यदुच्यते --कपायनित्यस्य वातप्रधानता स्यात् कषायस्य वातकारित्वात्,
For Private and Personal Use Only