________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६ चरक-संहिता।
स्वेदाध्यायः सुशुद्धैर्लक्तकैः * पिण्ड्या गोधूमानामथापि वा। पद्मोत्पलपलाशैर्वा स्वेदः संवृत्य चक्षुषी॥ मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । जलालजैहस्तैः विद्यतो हृदयं स्पृशेत् ॥ ४॥ शीतशलव्युपरमे स्तम्भगौरव निग्रह।
सञ्जाते माईवे स्वेदे स्वेदनाद्विरतिर्मता ॥५॥ इत्यादि। स्वेदैकसाध्यषणहृदयदृष्टिगते व्याधौ मृदु मृदुतापेन स्वेदयेत् । वृषणादीति। विना स्वेदं क्रियान्तरसाध्ये व्याधा पणादीनि न वा स्वेदयेत् । वंक्षणस्थे व्याधौ वंक्षणो मध्यमं मध्यमतापेन स्वेदयेत् । एभ्यः शेषमङ्गावयवमातुरस्येष्टतः स्वेदयेत् ।
ननु वृषणादिषु मृदुस्वेदं कैद्रव्यः कुर्यादिति ? अत आह-मुशुद्धरित्यादि । सुशुद्धधूल्यादिदृपकद्रव्यरहितैः। लक्तकैरलक्ततूलकैः। गोधूमानां पिण्ड्या वा। पद्मोत्पलान्यतरपुष्पदलैवा चक्षुपी संकृत्य स्वेदः काय्यः ।
हृदयं यदि मृदुस्वेदं तर्हि कथं स्वददिति ? अत आह-मुक्तावलीभिरित्यादि। मुक्तावली बहुमुक्ता ग्रथिताः श्रेणीभवन्ति। ताभिः पुनःपुनजलादिना चक्षुष्यद्रवेण वा सेचनेनार्दीकृत्य शीतीकृताभिमुक्तावलीभिरुष्णीकृत्य स्विद्यतो जनस्य हृदयं स्पृशेत् । अथवा मृदु यथा स्यात् तथा स्वेदनद्रव्येण विद्यतो जनस्य हृदयं मुक्तावलीभिः शीताभिः स्पृशेन्। अथवा शीतलैः कांस्यादीनां भाजनैह दयं स्पृशेन् । अथवा स्विद्यतो जनम्य हृदयं जलांजलजैः पद्मादिभिः स्पृशेत्। अथवा जलांव्हेस्तैः स्पृशदिति : टपणस्वेदानुक्तखात् हृदयस्वेदवद बोध्य इति। प्राधान्याद्वा हृदयपदोपादानं जपणोपलक्षणात् ॥४॥
गङ्गाधरः-ननु किन्तावत कालं स्वेदथेति ? अत आह-शीतशूलत्यादि। शीतापगमेऽपि शूलं वर्तते इति । शीतशृलोभयव्युपरम इति । तथा सति
स्वेदे क्रियमाणे चक्षुपः स्वेदपरिहारोपायमाह - सुशुद्धरित्यादि। नक्तकः कर्पटावयवः । स्वेदे क्रियमाणे हृदयरक्षणार्थमाह-मुक्तावलीत्यादि। जलजानि पङ्कजादीनि ; एवमस्वेद्यत्वसामान्यत्वात् वृषणरक्षाप्युन्नेतन्या, प्राधान्यात् हृदय-चक्षुःपालनमुक्तम् ॥ ३॥४॥
चक्रपाणिः-शोतशूलेत्यादौ स्वेद इति स्वेदभवे धर्मे,स्वेदनाद् विरतिर्मतेत्युपदिशन् शीतादिप्यपरमे सति स्वेदो निवर्तनीयः, शीताद्यनुपरमे च स्वेदः कर्त्तव्य इति द्वयमुपदिशति ; ततश्च इत
* नक्तकैरिति चक्रपाणिसम्मतः पाठः ।
For Private and Personal Use Only