________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श भध्यायः सूत्रस्थानम् ।
६२६ तृष्यतां क्षुधितानाञ्च ऋद्धानां शोचतामपि । कामल्युदरिणाञ्चैव चतानामाढ्यरोगिणाम् ॥ दुब्बलातिविशुद्धानामुपक्षीणौजसां तथा। भिषक तैमिरिकाणाञ्च न स्वदमवतारयेत् ॥७॥ प्रतिश्याये च कासे च हिवाश्वासेष्वलाघवे । कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे ॥ अर्दितैकाङ्गसाङ्ग-पक्षाघाते विनामके। कोष्ठानाहविबन्धषु शक्राघाते विजम्भके॥ पार्श्वपृष्ठकटीकुनि-संग्रहे गृध्रसीषु च । मूत्रकृच्छं महत्त्वे च सुष्कयोरङ्गमईके । पादोरुजानुजङ्घाति-संग्रहे श्वयथावपि ।
खल्लीष्वामेषु शीते च वेपथौ वातकण्टके ॥ अज्ञानानाम् । क्षतानाम् व्रणवताम्, रक्तदुष्टिभयान प्रतिषेधः। आध्यरोगिणां वातरक्तरोगवताम्। एषां स्वेदैकसाध्ये महात्ययकारिणि व्याधों स्वेदो न प्रतिषेध्यः। प्रबलात्ययापेक्षया स्वल्पात्ययदोषादेषां स्वेदे। उक्तं च-"भूयोविरोधे स्वल्पमप्यन्याय्यमिष्टम् ।” इति ॥७॥
गङ्गाधरः-स्वेदप्रतिषेधमुक्त्वा स्वेद्यानाह-प्रतिश्याये चेत्यादि। अलाघवे देहगौरवे। विनामके देहविनमनकारिणि दण्डापतानकादिव्याधौ । विज़म्भके बहुज़म्भणे। पार्थादीनां संग्रहे वेदनायाम् । अङ्गमईके सर्वाङ्गमद्दे । पादादीनामत्तौ रुजायां तेषां संग्रहे विमर्दे च । खल्वीषु करपादादौ विमोटनकफजमदात्यये स्वेदनिषेधार्थम् ; आढयरोगीह वातरक्ती ; एषु चास्वेदविषयेषु यदि स्वेदैकसाध्यः सन्न्यासादिर्भवति तदा महाप्रत्यवायभयादल्पप्रत्यवायमुपेक्ष्यापि स्वेदो विधेय इति न्यायसिद्धमेव, यदाहुायबिंद..... यद भूयोविरोधे स्वल्पमन्याय्यम्” इति ॥ ७ ॥
चक्रपाणिः-प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति। विनामकः शरीरविनमनकारी वातः ; विजृम्भको वहिरायामः, जृम्भाबहुत्वं वा ; पादजानूरुजङ्घाभिरातिः संग्रहश्च पृथक संबध्यते,
* अतिविशुष्कणामिति चक्रः ।
For Private and Personal Use Only