________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्द्दशोऽध्यायः ।
अथातः स्वेदाध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
अतः स्वेदाः प्रवच्यन्ते यैर्यथावत् प्रयोजितैः । स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥ स्नेहपूर्व प्रयुक्तेन स्वेदेनावर्जितेऽनिले । पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन ॥
गङ्गाधरः --- अथ स्नेहानन्तर्य्यात् स्वेदस्य विधानमुपदेष्टुमारभते – अथात इत्यादि । पूर्वाध्याय वद व्याख्येयम् ॥ १ ॥
गङ्गाधरः अत इत्यादि । " स्नेहमये प्रयुञ्जीत ततः स्वेदमनन्तरम्" इत्यतो हतोः स्नेहानन्तरं ते स्वेदाः प्रवक्ष्यन्ते यैः स्वेदेर्यथावत्प्रयोजितैः स्वेदसाध्या वातकफात्मका गढ़ाः प्रशाम्यन्ति । न हि सर्व्वे वातकफात्मका गदा यथावत् प्रयोजितः स्वेदैः प्रशाम्यन्ति । कषायमद्यनित्यादीनामस्वेद्यत्वेन वक्ष्यमाणानां वातकफात्मगदशान्त्यभावात् । तत उक्तं स्वेदसाध्या इति । अयथावत् प्रयोगेण पित्तप्रकोपमूर्च्छादिसम्भवादुक्त यथावत् प्रयोजितैरिति । वातकफात्मक वातात्मकाः कफात्मका वातककात्मकाश्चेति व्यस्तसमस्ताः ।
स्वेदाशिषमाह-यथा वातकफात्मकं गदं प्रशमयति - स्नेहपूर्व्वमित्यादि । प्रयुक्तेनेत्यस्याः क्रियाया विशेषणं स्नेहपूब्र्व्वम् । न सज्जन्ति पुरीषादीनि शरीराभ्यन्तरे संसक्तानि न भवन्ति, विबन्धकवातावजयात् । केवलकफजे च प्रेरकवातजयाच्च ।
चक्रपाणिः - स्नेहपूर्व्वकत्वात् स्वदस्य स्वदेदाध्यायोऽभिधीयते ; स्वदप्रतिपादको ऽध्यायः स्वेदाध्यायः । चातकफात्मका असंसृष्टबातकफजाः; वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यान्त, अत आह— “स्वेदसाध्याः”; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते ।
स्नेहपूर्वमिति क्रियाविशेषणं । न सज्जन्ति अप्रवृत्तानि न भवान्त । यथान्यायं यथागमम्,
For Private and Personal Use Only