________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२ चरक-संहिता।
[ स्वेदाध्यायः ____ तत्र श्लोकः। स्नेहाः स्नेहविधिः कृरस्नो व्यापतसिद्धिः सभेषजा। यथाप्रश्न' भगवता व्याहृतं चान्द्रभागिणा ॥४०॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृत श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोक इत्यादि। चान्द्रभागिणा भगवता चन्द्रभागापुत्रेण पुनर्वसुनात्रेयेणेति ॥४०॥
अध्यायं समापयति-अग्नीत्यादि । पूर्ववद व्याख्येयम् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीय
स्नेहाख्य त्रयोदशाध्यायजल्पाख्या त्रयोदशी शाखा ॥ १३॥
स्वेदोपकल्पनाध्याययोः सम्बाधसूचनं स्वेदादिषु स्नेहस्य प्रागभावमाह -- स्नेहमित्यादि। चान्द्रभागी आग्नवेशः ॥ ३८--४० ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां स्नेहाध्यायो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
For Private and Personal Use Only