________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः
सूत्रस्थानम् । यथा वाल द्य मृत्पिण्डमासिक्तं त्वरया जलम् । स्रवति स्रसते स्नेहस्तथा त्वरितसेवितः ॥ ३७॥ लवणोपहिताः स्नेहाः स्नेह्यन्त्यचिरान्नरम्। तद्धाभिष्यन्यरुक्षञ्च सूक्ष्ममुष्णं व्यवायि च ॥ ३८॥ स्नेहमयं प्रयुञ्जीत ततः स्वेदमनन्तरम् । स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत्॥ ३६॥
न तु जीर्यति। तस्मादधिकमात्र स्नेहं सेवमानस्य गुदतः स्रावमात्रेण किं स्यादिति ? अत आह---यथा वेत्यादि। यथाग्निमात्रां विना शीघ्र स्नेहनमिच्छता सरितसेवितः स्नेहो मात्राधिक्येन पीतः स्रवति गुदतः स्रसते च । यथा खरया खल्वासितं जलं मृत्पिण्डमाक्लेद्य ईषत् क्लिन्नं कृला स्रवति तन्मृपिण्डं संसते गालयति ॥३७॥ ___ गङ्गाधरः तर्हि शीघ्रस्नेहनमिच्छता किं कायमिति ? अत आह–लवणेत्यादि। यावन्तः स्नेहा उक्तास्तावन्त एव स्नेहाः सैन्धवलवणेनोपहिताः सन्तोऽचिरात् शीघ्र नरं स्नेहयन्ति । कस्मात् ? तद्धीत्यादि। हि यस्मात् तल्लवणमभिष्यन्दि चारुक्षश्च मूक्ष्मञ्चोष्णञ्च व्यवायि च। अभिष्यन्दित्वेन लवणं दोषसङ्घातं विलालयति, अरुक्षवात् स्नेहयति, मूक्ष्मसात् देहान्तः मूक्ष्मदेशं प्रविशति, उष्णखात् स्नेहं पीतं शीघ्र जरयति, व्यवायिखात् कृत्स्नं देहं स्नेहसहितं व्यामोति। तस्मादचिरात् स्नेहयति ॥३८॥
गङ्गाधरः--अथास्याग्रे विधानप्रयोजनमाह-स्नेहमित्यादि । शोधने कत्तव्ये खल्वग्र स्नेहं प्रयुञ्जीत। ततोऽनन्तरं स्वेदं प्रयुञ्जीत । एवं स्नेहस्वेदोपपन्नस्य नरस्य संशोधनं प्रयुञ्जीत। अथवेतरत् संशमनं वैति ॥३९॥
दर्शनम्" इति ; तेनैकदिन एवाधिक रनेहपानं क्रियतामित्याह- यथा रेत्यादि। आक्लच ईषत् क्लेदायत्वा ; त्वरित सेवितः स्नेहो धातनरने यिस्दैव सस्तेऽधो याति यावान्, न तावता स्नेहनं भवतीति भावः ॥ ३७॥
चक्रपाणिः-स्नेहने सर्वस्ने हेषु लवणप्रयोगमाह- लवणोपहिता इत्यादि। तदिति लवणम्, अभिप्याद दोपसङ्घात विमोदकं, त्यवायि अखिल देहत्याहिपूर्व व पाव गामि.। तो व६८माण
For Private and Personal Use Only