________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
(स्वेदाध्यायः
चरक-संहिता। शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः। नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ॥ २ ॥ रोग व्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च । द्रव्यवान् कल्पिते देश स्वेदः कार्यकरो मतः॥ व्याधौं शीते शरीरे च महान् स्वेदो महाबले । दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः ॥३॥
वातकफजे व्याधी स्नहस्वेदोच्छेद्यवं दशयति---शुष्काण्यपीत्यादि। हि यस्मात् शुष्काण्यपि काष्ठानि जीवहीनानि नीरसानि दृढानि स्नेहक्रियापूर्वक स्वेदनक्रिययोपपादनैयथान्यायं क्रमेणासहसा पुरुषा 'नमयन्ति । वक्राणि ऋजकुर्वन्ति ऋजूनि च वक्राणि कुर्वन्ति। जीवितान् नरान् सरसान् मृदूश्च पुनयत् स्नेहपूर्वकस्वेदरुपपादितान् वैद्या नमयन्ति तत्र किं वैचित्रामिति ॥२॥
गङ्गाधरः-कीदृशोऽयं कायं कुरुत इति ? अत आह-रोगेत्यादि । रोगापेक्ष ऋतुविशेषापेक्षो व्याधितपुरुषापेक्षश्च । नात्युष्णो नातिमृदुश्च तत्तद्रोगहरद्रव्यैः कल्पितः स्वेदः स्वेदेव देशे कृतः कार्यकरश्वोक्तः। तत्र नात्युष्णो नातिमृदुरिति यदुक्तं तत्र विशेषमाह-व्याधावित्यादि। शीते व्याधौ शरीरे च शीते महाबले पुरुषे महास्वेदस्तच्छरीरसह्यखेनासह्योष्णभिन्नः स्वेदः कार्यः। तथा शीते व्याधौ शीते च शरीरे दुर्बले पुरुष दुबेलः स्वेदो हितः। एवं शीते व्याधौ शीते च शरीरे मध्यमबले पुरुषे मध्यमः स्वेदो हितः॥३॥
एतच स्नेहस्वेदोपपादनैरित्यनेन संबध्यते ; यदि वा यथान्यायं यथासहजं नमयन्तीति सम्बन्धः ॥ १२॥ __ चक्रपाणिः-रोगमृतुं व्याधितञ्च बलवत्त्वादिनापेक्षत इति रोगत्तु व्याधितापेक्षः।. मात्युष्णो नातिचण्डतापः, द्रव्यवानिति स्निग्धरुनादिद्रव्यवान्, कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण, देशे चामाशयादौ यथायोग्यतया सम्पादित इति मन्तव्यम् ।
रोगाद्यपेक्षयोक्तकल्पनां दर्शयति-व्याधावित्यादि। व्याधौ महाबले तथा शीते कालकृते महाबले, महानिति चण्डताप एव पुनःपुनः क्रियमाणत्वेन मृदुस्वेदापेक्षयाऽधिकतापत्वेन ज्ञयः ;
For Private and Personal Use Only