SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। ( स्नेहाध्यायः स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली। स्नेह निरुत्तमां तृष्णां सोपसर्गामुदीरयेत् ॥ नालं स्नेहसमृद्धस्य शमायान्न सुगुर्वपि । स चेत् सुशीतं सलिलं नासादयति दह्यते। यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना ॥ ३० ॥ अजीणे यदि तु स्नेहे तृष्णा स्याच्छईयेद्भिषक। शीतोदकं पुनः पीत्वा भुक्ता रुक्षान्नमुल्लिखेत् ॥ न सर्पिः केवले पित्त पेयं सामे विशेषतः । सव्वं ह्यनुचरेद। देहं हत्वा संज्ञाञ्च मारयेत् ॥ स महाबलो देहाग्निजेठराग्निस्तां पीतां स्नेहमात्रां जग्ध्वा पुनर्बली वल्वान् सन्नोजः प्रक्षारयन सोपसर्गामुन्यां प्रवलां तृष्णामुदीरयेत् । ___ तर्हि तदग्निप्रशान्त्यर्थ गुर्वन्नमश्नीयादित्याशङ्कायामाह-नालमित्यादि। स्नेहसमृदस्य सम्यगवद्धस्य महाबलस्य देहाग्नेः शमाय शान्त्यै सुगुप्यन्न भुक्त नालं न समर्थ भवति। तदा स महाबलाग्निः स्नेहपानेन लब्धबलानिश्च पुरुषो यदि तदा सुशीतलं जलं नासादयति पानाय न प्रामोति, तदा तेनाग्निना दह्यते दाहवान् स्यात् । तत्र दृष्टान्त:- यथैवेत्यादि । यथा खल्वाशीविषः सर्पः कक्षमध्यगः संतृतस्थानमध्यगः सन् स्वविषाग्निना दह्यते । इति स्नेहव्यापद उक्ताः। अथ सिद्धयश्च का इति प्रश्नस्योत्तरमाह-तस्मात् स तदा सुशीतलं जलमा पिपासाशान्तः पिबेदिति ख्यापितम्। तत्र चान्यदाह-अजीर्ण इत्यादि। यदि तु तत्र पीते स्ने हे खल्वजीणे तृष्णा स्यात् तदा तं स्नेहं छई येद् भिषक् । ततोऽनन्तरं पुनः शीतोदकं पीखा रुक्षान्नञ्च भुक्त्वा उल्लिखेत् वमेत् । इति स्नेहव्यापत्सिद्धिं तात्कालिकीमुक्त्वा तदकरणेऽन्या व्यापद आहदर्शयति, वचनं हि-'नालं स्नेहसमृद्धस्य शमायान्नं सुगुपि”। उत्तमा महती मात्रां, सोपसगी सोपद्रवां, कक्षः काष्ठ समूहः ; छईयेदिति प्रथमं स्नेहमेव, तृष्णाकारकं तं स्नेहं छईयित्वा पुनः शीतोदकं पीत्वा रुक्षान्नञ्च भुक्त्वा उल्लिखेदिति योजनीयम् । * केवल मिति चक्रपाणितः पाठः। अनुचरेदित्यत्र अनुरजदिति चक्रः। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy