________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवितोय: स्मृत्या चोपचर्यमाणः प्राक्त नानुस्मृतिमान्, तया चाभिलषितभावानां लाभालाभाभ्यां मनसि सुखदुःख जनयनात्मा सुखदुःखाभ्यामुपचर्यमाणः सुखी वा दुःखी वा भवति। ततो लोके जातः सन् प्राक्तनदैवानुरूपं जागरितस्थानः स्थूलरूपेण सुखदुःखं सप्ताङ्ग एकोनविंशतिमुख एवोपभुङ्क्ते। स्वमस्थानोऽन्तःप्रशस्तथाविध एव प्रविविक्तरूपेण सुखदुःखमुपभुङ्क्त। सुषुप्तिस्थानस्तु पाशश्चेतोमुखः आनन्दमयो ह्यानन्दमात्रमुपभुङक्ते इति, शुभाशुभजनकञ्च प्राक्तनदैवानुसारेणाचरति, फलञ्च तदनुरूपमिह चामुष्मिंश्च लोके मनोबुद्धिभ्यामुपभुङ्क्ते. इति, आभ्यन्तरवाह्यावस्थात्रयं माण्डुक्ये शिष्याणां प्रत्यक्षगोचरमुपदिष्ट, तदवस्थात्रयोपदेशेनात्मनोऽप्यवस्थात्रयवत्त्वमुन्न यम् । सुषुप्तौ तु चेतोमात्रमुखः सुखमात्रभुक् तदा ह्यस्फुटचैतन्यमात्रमतिरिक्तानां बुद्धग्रादीनां लयात् । तदुक्तं कैवल्योपनिषदि,-"सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति। पुनश्च जन्मान्तरकम्योगात स एव जीवः स इति प्रबुद्धः" इति । सुश्रुतेऽपि गर्भावक्रान्तिशारीरे,-"स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति । ततस्तेजोऽनिलसन्निपातात् शुक्रं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चात्तेबेन । ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते। क्षेत्रको वेदयितेत्यारभ्य धाता वक्ता योऽसावित्यादिभिः पर्यायवाचकर्नामभिरभिधीयते, दैवयोगादक्षयोऽवययोऽचिन्त्यो भूतात्मना सहान्वक्षं सरवरजस्तमोभिदेवासुरैरपरैश्च भावैर्वायुनाभिर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते” इत्याद्युक्तम् । तत्र भूतात्मनेति तन्मात्र-पञ्चभूतादि-सूक्ष्मशरीरेण । एवमेव शरीरसगै पञ्चभूतसंयोगात् गुर्वादयो गुणा जायन्ते। राशिपुरुषभावे तु सदसत् कर्म चाचरेदित्यतः कम्म कम्म फलं जीवितं मरणं जन्म च मोक्षश्चेति सर्व तत्र सरावात्मशरीरसमुदायात्मके लोके प्रतितिष्ठते इति तत्त्वम् । एतेन तत्संगृहीतमिति यद्व्याख्याय सर्व कर्मफलादिकमिति, बक्ष्यते हि कतिधापुरुषीये,–“अत्र कम्में फलञ्चात्र ज्ञानञ्चात्र प्रतिष्ठितम् । अत्र मोहः सुख दुःखं जीवितं मरण स्वता" इति तदसमग्रवचनान्न साधु। व्याख्यानमिदमस्माभिरुन्नीतं कतिधापुरुषीये -"अचेतनं क्रियावच्च चेतश्चेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते
क्रियावच्च मनश्चतयिता' परः। युक्तस्य मनसा तस्य निर्दिशन्त्यात्मनः क्रियाम् ॥” इति । पूर्व "शरीरे" इत्यादिना आयुरुक्त, “सवमात्मा" इत्यादिना तु तदधिकरणभूतपुरुष उच्यते
For Private and Personal Use Only