________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
४६
वान् भवति कोऽहमिति । तेन संशयेन ता धृत्यादयो बुद्धयोऽतियोगयुक्ता भवन्ति । अतियोगयुक्ताभिश्च ताभिर्धृत्यादिभिवुद्धिभिरात्मा मनसि एष देवदत्तो यशदत्त एषोऽहमयमित्यादिलक्षणभेदवद्धिख्ममहमिति मन्यते सा चाहम्पतिस्त्रिधा । तत्रादौ यया मनसि तमोगुणोद्रिक्त तथा मोहजनिकाहम्मतिं विस्मृतिं जनयन्नात्मा तयाsहम्मत्योपचय्यमाणो मुग्धः सन्नहमिति मन्यते । ततस्तथा चाहम्प्रत्या रागामकरजोगुणोद्रिक्ताभिस्ताभिव द्विभिर्मनसि राजसं तेजसाख्यमहङ्कारांशनिश्चयबुद्धिरूप' जनयन्नात्मा तेनाहङ्कारेणोचय्यमाणो दुःखजनकराजसाहङ्कारवान् भवंस्तैजसो भवति, यो हि स्वमावस्थायामस्मिन् पुरुषे सप्ताङ्ग एकोनविंशतिमुखोऽन्तः प्रज्ञः प्रविविक्तभुग् भवति । ततस्त्वेताभिरयोगयुक्ताभिः प्रकाशात्मकसत्वगुणोद्रिक्ताभिस्ताभिबू द्विभिर्मनसि सुखजनकं विवेचकबुद्धिरूपं वैकारिकाख्य' सातिकाहङ्कारं जनयन्नात्मा तेनाहङ्कारेणोपचर्य्यमाणः सातिकाहङ्कारवान् भवन् वैश्वानसे भवति, यो हि जागरितावस्थायामस्मिन् पुरुषे बहिः प्रशः सप्ताङ्ग एकोनविंशतिमुखः स्थलभुग्भवति । इत्येवं भ्रमाद्यज्ञानवान् अज्ञानरूपाहकारत्रयवांश्चात्मा भवति, सात्तिकाहङ्कारवान् सन् तैजसाऽहङ्कारमाश्रित्य मनसि सुखाय वासनां दुःखाय द्वेषं जनयति । ततश्च तयेच्छया द्वेषेण चोपचर्य्यमाणः सुखकामी दुःखद्वेषी भवत्यात्मा । ततश्चेच्छया यथा मुखं भवति तथा मनसि भूतसर्गाय प्रवृत्तिं दुःखञ्च यथा न भवति तथैवान्यथाभावाय द्वेषेण निवृत्तिं जनयन्नात्मा प्रवृत्तिनिवृत्त्याख्यप्रयत्नं न तेनोपचर्य्यमाणः प्रयत्नवान् भवति । तेन च प्रयत्नेन खं वायु' ज्योतिरपो भूमिं क्रमेण सृजति । तैश्चेन्द्रियाणि पश्च चार्थान् सृजन कोषकारकीटवत् तदष्टादशतत्त्वमय- सूक्ष्मदेहरूपकोषेण स्वयमानृतः सगुणकर्मणा वायुनाऽभि र्यमाणः प्राक्तनदैवरूपेण देवनरादियोनिष्वदुष्टायां योनावदुष्टञ्च गर्भाशयमनुप्रविश्यादुष्टशुक्रशोणितसंयोगमेत्य तन्मध्यस्थानमास्थाय अणुना कालेन मनसा पूर्वतरमाकाशं सृजत्येवं क्रमेण वाय्वादिकं निर्माय क्रमेण शौक्रशौणितिकाहारज - रसमयानि भूतानि मिलितानि सर्वाण्याध्मापयन् वायुना तेजसा च पाचयन्ननुक्रमेण शारीरे वक्ष्यमाणेनात्मानं गर्भरूपेण सृजति, तस्मिंश्च शरीरे हृदि तिष्ठन् चतुर्थे मासि वाह्यबद्धीन्द्रियाण्यभिव्यञ्जयन् वाह्यचैतन्यादिकं मनसि जनयति । तेन च प्राक्तनानुभूतभावाननुस्मरति, तयाऽनुहेतुमाह तदर्थ' हीत्यादि । - तदर्थमिति तदुपकारार्थम्, एतेन तदुद्दिश्य प्रवृत्तिरधिकरणार्थ नाधारार्था इति दर्शयति । अत्र सवमादौ कृतं तदधीनत्वादात्मशरीरक्रियायाः । यदुक्तम् ' अचेतन'
७
For Private and Personal Use Only