________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। दोंर्घ जीबितीयः तस्मात् कारणभूतसत्त्वादित्रयसमुदायात्मकवेन पुरुषोपदेशात् कार्यभूतानामिच्छादीनां तत एव लाभः ख्यापितः। तद्यथा-सत्तुमचेतनं क्रियावच्च प्राकप्रसिद्धम् । आत्मा खलु यः क्षेत्रज्ञः स शाश्वतो निगुणो निष्क्रियः सत्तुभूतगुणेन्द्रियैश्चैतन्ये हेतुः, स च संसारस्यानादिखेन चक्रवदभ्रमणशीलखेन च यदृच्छया वा प्रभावाच त्रिगुणसाम्यात्मकप्रधानेन यदा युज्यते रागात्मकेन तदा प्रवृत्तिहेतुना रजसा प्रत्तिमान् भवति, सत्तेन प्रकाशकेन चेतनावान भवति, तमसा मोहात्मकेन आयतशानवान् भवतीति ; स आत्मा तदा खल्ववयक्तं नाम ज्ञः स चोदासीनः । स यदा महता स्थूलाविद्याबुद्धया युज्यते तदा सुषुप्तिस्थानः प्राज्ञ उच्यते। स तया बना यदाहमिति मन्यते तदाऽहम्मत्या खल्वविद्यया युक्तः पञ्चमहाभूतोपाधिः सन् प्रत्यगात्मा भवति, सोऽन्तःप्रशः स्वमस्थानो भूतात्मा सूक्ष्मशरीरी। तस्य स्थ लशरीरपरिग्रहे स्थूलपञ्चभूतोपाधिज्ञः यदा च स मनसा युज्यते तदा मनसः क्रियया उपचय्यते, मनःक्रियोपचरितवेनासावात्मा क्रियावानुपदिश्यते, तथा चोपचरितक्रियया खल्वात्मा मनसि चेतनां जनयति। तेन खलु मनश्चैतन्येन पुनरात्माप्युपचय्यते, ततश्चात्मा प्रव्यक्तचेतनावानुपदिश्यते। चेतनः स खल्वात्मा नियमात्मिकां धृति मनसि जनयति । तया च मनोधृत्या पुनरात्मोपचय्य ते, तस्मादात्मा धृतिमानुपदिश्यते, समयोगयुक्तया खलु धृत्या पुनरात्मा मनसि समदर्शनरूपां बुद्धिं जनयति। तया च मनःस्थया बुद्धमा खल्वात्मोपचय्य ते, तस्मादात्मा बुद्धिमानुपदिश्यते, समयोगयुक्तया बुद्धग्रा च तयात्मा मनसि चिन्तयते कार्याकार्य स्मरतीति यावत् । मनसि जनितया च तया म त्यात्मा तदोपचयेते, तस्मात् स्मृतिमानात्माऽभिधीयते । इति चैतन्यादिकाः सा बुद्धयो महत्तत्तु सत्तरजस्तम इति त्रिगुणवैषम्येणाकृतपुरुषांशरूपं शान विद्यात् । उक्तञ्च लिङ्गपुराणे-मनो मतिरित्यादिपर्यायेण । स एप महदुपाहित आत्मा प्राज्ञः सुषुप्तिस्थानश्चेतोमुख आनन्दमय एवानन्दभुग भवतीति । तत्र त्वेताभिश्चतन्यादिभिवु द्धिभिरयोगयुक्ताभिरामा मनसि भ्रान्तिरूप ज्ञानं जनयति, तेनोपचर्यमाणः स्वस्वरूपाने भ्रान्तो भवति, भ्रमबद्धता तु ता धृत्यादयो बुद्धयो मिथ्यायोगयुक्ता भवन्ति, मिथ्यायोगयुक्ताभिश्च ताभिधृत्यादिभिर्व द्धिभिर्मनसा संशेते, तेन च मनःस्थसंशयशानेनोपचर्यमाणः संशयमन्तव्यः, वदन्ति हि लाक्षणिकाः “प्रत्यक्षे च परोक्षे च सामीप्ये दूर एव च। एतेष्वर्थेषु विद्वनिः सवनाम प्रयुज्यते"। चेतनमिति ज्ञानवत्, तच्चाधिकरणं स्मृतं तन्खस्येति ; अत्र
For Private and Personal Use Only