________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः
सूत्रस्थानम् । सक्तवस्तिलपिष्टश्च मद्य लेहास्तथैव च । भक्ष्यमभ्यञ्जनं वस्तिस्तथा चात्तरवस्तयः॥ गण्डूषः कर्णतैलञ्च नस्तःकम्मानितर्पणम् । *
चतुविंशतिरित्येताः स्नेहस्य प्रविचारणाः ॥ १०॥ भवन्ति । तत्रौदनोऽन्नं पश्चगुणजललाध्यम् । विलेपी दरदलितक्षुद्रतण्डुलानां चतुर्गुणजले साधनेन विरलद्रवा बहुसिक्थसमन्विता यवाः । रसो मांसरसः । मांसं यथावत् पक मांसम् । पयो दधि च प्रसिद्धम् । यवाः पेया दरदलित. क्षुद्रता डुलानां पड़ गुणजले साधनेन सिकथसमन्विता द्रवरूपा। मूपशाको चेति मूपो विदलकृतश्चाई शगुणतोयेऽष्टादशगुणताय वा पक्त्वा पादशिष्टो द्रवः । शाकः फलादिपड़ विधः। यूपः काम्बलिकः खड़श्च। विदलकृतश्चतुर्दशगुणतोयेऽष्टादशगुणतोय वा पक्त्वा शिष्टो द्रवो यूरः। काम्बलिकश्च यूपः---"तक्रं कपित्थं चाङ्गरो मरिचानाजिचित्रकः। सुपकः खड़यष,ऽयं यषः काम्बलिकोऽपरः। दध्यम्ललवणस्नेह-तिलमापसमन्वितः ॥” इति।
सक्तव इत्यादि। सक्तवो यवादिसक्तवः। तिलपिष्टं तिलशकुल्यादिकं पिष्टकम् । मद्य प्रसिद्धम् । लेहाः शर्करादिना पाकात कृता उत्कारिकाः। भक्ष्यं घृतपूरादिकम् । तथाभ्य अनं गात्रै भ्रक्षणम् । वस्तिरनुवासनविधिना । उत्तरवस्तयो योनिशिश्नपथेन वस्तिना दानमः ।।
गण्डूप इत्यादि। गण्डयोऽसञ्चार्यस्नेहमात्राया मुखे धारणम। कणतैलं कर्णपूरणम्। नस्तःकर्म पञ्चविधम्। अक्षितर्पणं नेत्राभ्यन्तरे दानेनाक्षितृप्तिकरणम्। प्रविचारणा प्रकपण विशेषात् चय्यते भक्षणपानलेहाभ्यञ्जनादिरूपेण उपसेव्यते यत् तत् प्रवर्तना। ओदनादयश्चविंशतिर्भवन्ति। स्नेहयुक्ता हाते भक्ष्यन्ते इत्येवमादय आचरणम्। न तु सव्वत्रैव जाठराग्निसम्बन्धेन व्याप्रियन्ते। अभ्यङ्गादीनि हि भ्राजकपित्तोष्मणा पच्यन्ते। तस्मात् प्रविचारणासंज्ञा कृता न खवचारणासंज्ञति ओदनादिनिर्देशेऽधिकगणना. व्यवच्छेदाथं पुनश्चतुविंशतिरित्युक्तम् ॥१०॥ कृत ईषदम्लः, एतयोरुदाहरणं यथा--"तकं कपित्थचाङ्गेरी-मरिचाजाजिचित्रकैः । सुपक्कः खड्यूषोऽयमयं काम्बलिको मतः । दध्यम्लो लवणस्नेह-तिलमाषान्वितः शृतः" ॥ इति। लेहः शर्करादीनां पाकात कृतः, लिह्यत इति लेहः । प्रविचार्यतेऽवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा नस्तःकर्णाक्षितर्पणमिति चक्रपाणिः ।
७६
For Private and Personal Use Only