________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
स्नेहाध्यायः अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन च। मूर्छा पिपासामुन्मादं कामलां वा समीरयेत् ॥ शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा। आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति ॥८॥ जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते। वसामज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु का॥६॥
ओदनश्च विलेपी च रसो मांसं पयो दधि ।
यवागूः सूपशाको च यूपः काम्बलिकः खडः ॥ तत्र दोषानाह-अत्युष्णेत्यादि। अत्युष्णे ग्रीष्मे वातपित्ताधिकेन वाताधिकेन पित्ताधिकेन वा नरेण दिवा पीतः स्नेहो मूर्छादीन् समीरयेत् ।
शीतेत्यादि। शीते हिमऋतौ शिशिरे वा श्लेष्माधिको नरो रात्रौ स्नेह पिबन्नानाहादीन् समृच्छति। इति स्नेहपाने काल उक्तः॥८॥ ___ गङ्गाधरः-अथानुपानं किं कस्येत्यस्योत्तरमाह-जलमुष्णमित्यादि। घृते पीतेऽनुपेयमुष्णं जलं शस्यते। तैले पीतेऽनुपेयो यूपः शस्यते। व्यवहितञ्चेति सूत्रेण व्यवधानेनानुशब्दप्रयोगश्छान्दसः। वसामज्ञोस्तु पीतयोरनुपेयो मण्डः स्यात् । अथवा सर्वेषु घृततैलवसामज्जसु पीतेष्वनुपेयमुष्णमम्बु शस्यते। भल्लाततौवरस्नेहे शीतमेव जलं पिबेदिति वक्तव्यं तत्रान्तरसंवादात् । अनुपानमानं यथार्ह स्नेहपरिपाकयोग्यं विद्यते ॥९॥
गङ्गाधरः-अथ स्नेहस्य कति विचारणा इत्यस्योत्तरमाह ओदनश्चेत्यादि। ओदनादयोऽक्षितर्पणान्ताश्चतुर्विंशतिः स्नेहस्य प्रविचारणाः
उक्तकालनियमविपर्यये दोपमाह-- अत्युष्णे वेत्यादि। अत्युष्णे काले दिवा पीतः स्नेहः श्लैष्मिकस्यापि यथोक्तविकारकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोक्तविकारकरः ; एवं निशापानेऽपि वाक्यार्थः, परं निपिद्धस्य कालस्य दोपस्य च मेलकेऽत्यये चोक्तविकारप्रकर्षापकर्षों तर्कणीयौ ॥८॥ ___ चक्रपाणिः-अनुपानमाह-जलमित्यादि। तैलेऽन्वित्यनुपाने, अनुपानपरिमाणन्तु सम्यगभेषजपाकाथ क्रियमाणं भेषजाऽवैकारिकपाकेणैवोन्नेयं वृद्धवैद्यव्यवहाराच्च ॥९॥
चक्रपाणिः-विचारणाः संख्यया स्वरूपेण चैकग्रन्थेनाह–ओदनश्चेत्यादि । विलेपी विरलगवा यवागूबहुसिक्थसमन्विता ज्ञेया ; सशाकपल्लवेन कृतो यूषः खड़ः, काम्बलिको दधिलवणतिलादि
For Private and Personal Use Only