________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०२
[ स्नेहाध्यायः
चरक संहिता | अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम् । स्नेहस्य स भिष्टः कल्पः प्राथमकल्पिकः ॥ ११ ॥ रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः । भिस्त्रिपष्टिधा सङ्ख्याः प्राप्नोत्येकञ्च केवलः ॥ एवमेषा चतुःषष्टिः स्नेहानां प्रविचारणा । ओकर्त्तव्याधिपुरुषान् प्रयोज्या जानता भवेत् ॥ १२ ॥
गङ्गाधरः-- अथ केवलस्नेहपानमपि विचारणा भवतीत्याशङ्कयाह -अच्छपेयस्वित्यादि । अच्छ एवानाविलतया पेयस्तु यः स्नेहस्तां विचारणां नाहुः । कस्मात् ? स्नेहस्येत्यादि । यतः स्नेहस्य स खल्वच्छ पेय कल्पः प्राथमकल्पिको भिषग दृष्टः । तदनन्तरं प्रकृतिदेहशेषादीनवेक्ष्य तथा पानाशक्तो च ओदनादिविचारणा कर्त्तव्या ॥ ११ ॥
गङ्गाधरः - अथ " काय विचारणाः" इति प्रश्नस्योत्तरमाह रसैरित्यादि । ओदनादिविचारणासु च विचारणाः सर्पिरादि स्नेहा बुरादिभिः पद्मः समासव्यासयोगिभिरुपहिता उपाधिमान् सन् त्रिष्टिरासयाः प्राप्नोति । केवलोऽनुपहितश्चैक इत्येवमेषा स्नेहानां चतुःषष्टिः पविचारणा तू व्याधिपुरुषान जानता भिषजा प्रयोज्या भवेत् । यद्यपि स्वच्छदेयों न विचारणा तथापि ओदनादयः, ओदनादयश्च स्नेह - विचारणायां स्नेहयुक्ता एव बोद्धव्याः, अभ्यञ्जनादयस्तु यद्यपि शुद्ध स्नेहसम्पाद्यास्तथापि जठराग्निसम्बन्धेन व्याप्रियन्त इति तन्त्रे विचारणाशब्देनोच्यन्ते ॥ १० ॥
चक्रपाणिः -- केवलस्नेहपानन्तु स्नेहते शक्यविज्ञयवत्त्वेन न विचारणासंज्ञयोच्यते, एतदेवाहअच्छपेय इत्यादि । अच्छश्व पेयश्च अच्छपेयः, श्रदनाद्यसम्बन्धे मति पेय इत्यर्की, न तामाहुविचारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्शयति भिपग्भिटेटो भिषग्टटः । प्रथमे श्रेष्ट कल्पे पक्षे भवतीति प्राथमकल्पिकः श्रेष्ठ इत्यर्थः ॥ १३ ॥
2
चक्रकाणिः --- प्रकारान्तरेण विचारणाभेदमाह रसैश्चेत्यादि । समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः, समासव्यासवद्भिः पड़भी रसैरोदनादिगतैरुपहितो युक्तः सन् स्नेहस्रिपरिसंख्यां प्राप्नोति ; एकश्च केवल इत्यच्छपेयं वर्जयित्वाऽभ्यञ्जनादि-प्रयोज्यः; त्रिषष्ठी रसभेद आत्रेयभद्रकाप्यये “स्वाद्वम्लादिभिर्योगम् इत्यादिवाक्ये वक्ष्यमाणो बोद्धव्यः एवं स्नेहानां रसयुक्तानां चतुःषष्टिः प्रविचारणाः स्युः, चतुःषष्टिरिति स्नेहानामित्यनेन सम्बध्यते, तेन, प्रविचारण्त्येकवचनमुपपन्नं स्यात् । न सर्व्वविचारणा सर्वत्र कर्त्तव्या, किन्तु, सात्म्यतु व्याधिदोषपुरुषान् परीक्ष्य या यत्र युज्यते तत्र सा कर्त्तव्येत्याह-ओकर्त्वित्यादि । ओकोऽभ्यासः । पुरुषग्रहणेन कस्मिन् देशेऽयं पुरुषो वर्त्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः, क्योबलप्रभृतयश्च बोद्धव्याः ||१२||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only