________________
Shri Mahavir Jain Aradhana Kendra
६८
www.kobatirth.org
-
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
मारुतघ्न न च श्लेष्म-वर्द्धनं बलवर्द्धनम् ।
त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम् ॥ विद्धभग्नाहतभ्रष्ट योनिकर्णशिरोरुजि ।
पौरुषोपचये स्नेहे व्यायामे चेप्यते वसा ॥ बलशुक्र रसश्लेष्म- मेदोमजविवर्द्धनः । मज्जा विशेषतोऽस्थनाञ्च बलकृत् स्नेहने हितः ॥ ६॥ सर्पिः शरदि पातव्यं वसा मज्जा च माधवे । तैलं प्रावृषि नात्युष्ण-शीते स्नेहं पिवेन्नरः ॥ ७ ॥
[ स्नेहाध्यायः
तैलगुणमाह-मारुतन्नमित्यादि । स्थिरकरं शरीरस्थैय्र्यकरम् । तैलमिति तिलतैलादि सर्व्वं स्थावरयोनिकम् । तत्र तिलतलं विशिष्टगुणमिति बोध्यम् ।
वसागुणानाह - विद्धेत्यादि । विद्धे च भने चाहते च भ्रष्टयोनौ च कर्णरुजि च शिरोरुजि च पौरुषोपचये शुक्रोपचये स्नेहे शरीरस्नेहकरणे व्यायामे कृते वसा जन्तुस्नेहो हृदयस्थमेद इष्यते ।
मज्जगुणानाह--वलेत्यादि । मज्जा बलवर्द्धनथ शुक्रवर्द्धनश्च रसवर्द्धनश्च श्लेष्मवर्द्धनश्थ मेदोवर्द्धनश्थ मज्जवर्द्धनश्च विशेषतोऽस्थनां वलकृच्च शरीरस्नेहने हितश्च भवति ॥ ६ ॥
अन्नपानादिके तैलादीनां प्रभेदगुणा विस्तरेण वक्ष्यन्तं - अथ कालानुपाने के कस्येति । कस्य स्नेहस्य कः कालः किमनुपानञ्च इत्येतयोरुत्तरमाह - सर्पिरित्यादि । शरदि काले सर्पिः पातव्यम् । माधवे वसन्ते ऋतुवचन
For Private and Personal Use Only
मारुतनमित्यादि तैलगुणः, स्थिरकरमङ्गस्थैर्यकरम् । विद्धेत्यादि वसागुणः, पौरुषोपचयः शुक्रोपचयः, स्नेहे शरीरस्नेहने कर्त्तव्ये । बलशुक्रेत्यादि मज्जगुणः ॥ ६ ॥
चक्रपाणिः - सर्पिरादिपानकालमाह - सर्पिः शरदीत्यादि । माधवे वैशाख, प्रावृढापाढ़श्रावणौ, यदुक्त'--" प्राट् शुक्रनभौ ज्ञेयौ” इति । शरदि बहुपित्तत्वेन पित्तविरुद्ध घृतमेव यौगिकं नान्यस्तैलादिः । वसामज्ज्ञोस्तु नातिशीतोष्णत्वात् साधारणोष्णयोस्तयोरनुपाने शीतत्वेन वोष्णत्वेन वा निर्देशो न कृतः " यथासत्त्वन्तु शैत्योष्णे वसामज्जे विनिर्दिशेत्” इति तु वचनेन शैत्योष्णाभिधानं सामान्येन तैलसर्पिर्वदुष्णशैत्याभिधानान्न प्रकर्पप्राप्त शैत्योष्णत्वप्रापकं,