________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्याय
सूत्रस्थानम् ।
५६७ घृतं पित्तानिलहरं रसशुक्रौजसां हितम्।
निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् ॥ मपि संस्कारकद्रव्यगुणानामावहनं स्वगुणानुपघातेन यत् तत् संस्कारानुवत्तनम् । एवमेव तैलादीनामल्पतरखेन संस्कारानुवत्तनं बोध्यम्। चन्दनोशीरादिशीतद्रव्यसंस्कृतन्तु तैलं स्वभावादुष्णमपि शीतं भवति। बाहुल्यात् तैलश्च दाहं शमयति। “विरुद्धगुणसमवाये भूयसाल्पमवजीयते” इति तलाष्णास्य संस्कारद्रव्यशैत्येनावजितखात् तत्तैलेन दाहप्रशमनमिति। ये तु स्वगुणपरित्यागपूर्वकसंस्कारकद्रव्यगुणानामावहनं संस्कारानुवत्तेनं तच्च सव्वेथा तैलेऽपि वर्त्तते, न तु सर्पिषि ; यतः “स्नेहाद्वातं शमयति पित्तं माधुर्यशैत्यतः” इत्युक्तम्, तन कचित् कस्यचिदगुणस्यानुपघातेनापि संस्कारद्रव्यगुणानामावहनमित्याहुः। तन्न। तिलतैलगव्यपुराणघृतादिविशेषाणाम् अविशेषापत्तेः संस्कारेण। एतद्दोपपरिहारार्थमन्ये तु व्याचक्षते-निखिलस्वगुणानुपघातेन स्वगुणविरोधिसंस्कारद्रव्यगुणानामावहनं संस्कारानुवर्तनम् । तेन कचिन शैत्यमाधुर्यादिगुणोपघातेन संस्कारद्रव्यगुणावहनेऽपि स्नेहनगुणस्य कुत्रापि नोपघातः स्यादिति निखिलस्वगुणानुपघातो वत्तेते इति यत् तदपि न सम्यक् । यदि हि तत्र घृतस्य शैत्यादिगुणाभिभवः संस्कारद्रव्यगुणैः स्नेहनगुणमात्रश्चानुवर्तते, तत् कथं तैस्तैद्रव्यैर्घ तसाधनमुपदिश्यते न तैलसाधनम्, तैलं हि बलार्थे स्नेहने चाग्रामुष्णञ्च साधितुमुपदिश्यतां तुल्यखात्, किमर्थ कफहरणाय तैलं पित्तशमनाय सर्पिरुपदिश्यते ? पित्तं माधुय्यशैत्यत इति वचनासङ्गतिश्च स्यादिति।
स्नेहानां पृथग्गुणानाह-घृतं पित्तानिलहरमित्यादि। ओजः सर्वधातुसारो बलाधिष्ठानमिति। निळपणमग्निदाहज्वालाप्रशान्तिकरम्। मृदुकरं कोमलखकरम् । गुणैरुष्णादिभिर्न पुनः स्नेहगुणः, तस्य स्नेहेषु सर्वात्मना व्यवस्थितस्य प्रबलत्वात्, अत एवं सर्पिरादयः स्नेह-प्रधानत्वात् स्नेहा इत्युच्यन्ते ; अन्ये तु संस्कारानुवर्त्तनं स्वगुणोपघातेन संस्कारकगुणवहनं ब्रुवते, एतञ्च तैले तिष्ठति न सर्पिषीति वदन्ति, सर्पिषि तु संस्कारानुवर्तनमुक्त यत्, तत्सर्पिपि सर्वथा कस्यचिद् गुणस्य संस्कारगुणेन स्वगुणोपघाताद् भवति ; तथा हि दाहप्रशमनार्थ ज्वरे चन्दनादिशीतद्रव्यसाधिततैलमुक्त, यतः, शीतेन साधिततैलमुष्णमपि स्वभावात् शीतमेव भवतीति स्नेहगुणानभिधत्ते । घृतमित्यादि। निर्वापणं दाहप्रशमनम् ।
For Private and Personal Use Only