________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३वा अध्यायः
सूत्रस्थानम्।
५६५ तिलः पियालाभिषुको विभीतकश्चित्राभयरण्डमधूकसर्षपाः। कुसुम्भविल्वारुकमूलकातसीनिकोठकानोडकरञ्जशिग्र काः॥ स्नेहाश्रयाः * स्थावरसंज्ञितास्तथा स्युर्जाङ्गमा मत्स्यगाः सपक्षिणः । तेषां दधि क्षीरघृतामिषं वसा
स्नेहेषु मजा च तथोपदिश्यते ॥४॥ सर्वेषां तैलजातानां तिलतैलं विशिष्यते ।
बलार्थे स्नेहने चार मैरगडन्तु विरेचने ॥५॥ तत्र तिलादयः स्थावरसंशिताः स्नेहाश्रया योनयः स्युः। अभिषुक औत्तरापथिकः, चित्रा रक्त एण्डः गोरक्षकर्कटीवीजं जयपालवीजं वा, अभया हरीतकी, अरुकः अरुष्करः भल्लातकफलम्, निकोठकः क्षुद्र आक्षोडः, आक्षोडः पर्वतस्थ आक्षोड़ः। जङ्गमस्नेहयोनिमाह-स्युजङ्गमा मत्स्यमृगाः पक्षिणश्च स्नेहयोनयः। तेषां दध्यादिकं स्नेहेषूपदिश्यते न तु रोमादिकम् । स्थावरजङ्गमयोनिनिद्देशेनैव कति स्नेहा इति द्वितीयप्रश्नस्याप्युत्तरमुक्तम् । तिलतैलमित्यादि भेदाः स्थावरस्नेहाः । दध्यादिभेदा जङ्गमस्नेहाः । इति ॥३॥४॥
गङ्गाधरः-अथ के च स्नेहगुणाः पृथगिति तृतीयप्रश्नस्योत्तरमाहसव्वेषामित्यादि। तिलादीनां वीजप्रभवः सर्वः स्थावरः स्नेहस्तैलमुच्यते लोके। सवेषां तैलजातानां तैलसमूहानां मध्ये तिलतैलं प्रशस्तगुणतो विशिष्यते। तदाह-वलार्थे स्नेहने च यतोऽतिलतैलं ततो विशिष्यते
चक्रपाणिः--अभिषुक औत्तरापथिकः, चित्रा गोरक्षकर्कटी तद्वीजमिह, यदि वा, चित्रा लोहितरण्डः, अतसी उमा इति ख्याता, अरुकनिकोठामोड़ा औत्तरापथिकाः, स्नेहाशयाः स्नेहस्थानानि, एते च आविष्कृततमत्वेनोक्ताः, तेन निम्बतैलादयो बोद्धव्याः, आमिषं मांसम् ॥४॥
चक्रपाणिः-तैलजातानामिति, जातशब्दः प्रकारवचनः, यथा-"यदाहारजातमग्निवेश" इत्यादि, अत्र यद्यपि योगात् तिलभवमेव तैलं, तथापि रूढयह सर्व एव स्थावरस्नेहास्तैलमित्युच्यन्ते,
* स्नेहाशया इति वा पाठः।
For Private and Personal Use Only