________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोदशोऽध्यायः। अथातः स्नेहाध्यायं व्याख्यास्यामः, इतिह स्माह
भगवानात्र यः॥ १॥ सांख्य संख्यातसंख्येयः सहासीनं पुनर्वसुम् । जगद्धितार्थं पप्रच्छ वहिवेशः स्वसंशयम्॥
गङ्गाधरः-अथैषां कुपिताकुपितानां शरीरचराणां वातपित्तश्लेष्मणां स्वस्थेषु पुरुषेषु धातुसाम्यस्थापनस्यातुरेषु विषमधातुसाम्य करणस्य चोपायानां प्रधानतमानां संशोधनानां नियतापेक्षणीयस्नेहस्वेदयोः पौर्वापय्ये नियमात् प्राक् स्वेदाद वातादिनिर्देशाच्चानन्तरं स्नेहाध्यायमारभते-अथात इत्यादि । स्नेहोऽधिकरणयोगायोगादिज्ञानविषयतयाधीयते यत्र स स्नेहाध्यायः। सर्वमन्यत् पूर्ववद्याख्येयम् ॥१॥
गङ्गाधरः-तत्र प्रश्नाः स्नेह विषये उत्थाप्यन्ते---सांख्यरित्यादि । संख्या सम्यगवस्तुतत्त्वज्ञान तेनाचरन्तीति सायाः। तैः सङ्ख्यातसंख्येयः। सङ्ख्यातं सम्यगज्ञातं सङ्खप्रयं सम्यग्ज्ञ यमात्मादितत्त्वं यस्तैस्तथा विज्ञातविज्ञ यैः।
चक्रपाणिः-निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं, तदुपदेष्टु कल्पनाचतुष्कोऽभिधीयते । भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्व्याभिधानं विना न पाय॑ते कल्पयितुम्, अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, वस्तिकल्पना तु वहुवक्तव्यत्वान्नोक्ता ; अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य प्रधानभेषजत्वाच्च तत्प्रतिपादक एव स्नेहाध्यायोऽभिधीयते । स्नेहस्य प्रतिपादकोऽध्यायः स्नेहाध्यायः॥१॥
चक्रपाणिः-संख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति सांख्या: ; संख्यातं ज्ञातं संख्येयं ज्ञेयं यैस्ते तथा ; यदि वा, संख्यातसंख्येयमिति पाठः, तदा पुनर्वसुविशेषणमेतत्, अर्थस्तु समानः ; सांख्यैः सहावस्थानदर्शनमात्रेयस्य कर्त्तव्यप्रश्नानुगुणमनःसमाधानोपदर्शनार्थम्। संशयमिति संशयेन विषयिणा विषयं लक्षयति, तेन संशयविषयमित्यर्थः ।
For Private and Personal Use Only