________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६२
चरक संहिता | तत्र श्लोकौ ।
गुणाः षड़िविध हेतुविविधं कर्म तत् पुनः । वायोश्चतुर्व्विध' कर्म्म पृथक् च कफपित्तयोः ॥ महर्षीणां मतिर्या या पुनर्व्वसुमतिश्च या । कलाकलीये वातस्य तत् सव्र्व्वं संप्रकाशितम् ॥ १६॥ इत्यग्निवेशकृते तत्र चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो द्वादश। ध्यायः ॥ १२ ॥ इति निर्देशचतुष्कम् |
शुभं वा कर्तुमलं भवति । भवतु । न च भवति रसमांसादिधातुरिवासचिताप्रसारि चाप्रकोप चानिर्हाय प्रकोपकालवर्ज्जमित्यभिप्रायेण तत्रैवोवाच सुश्रुतः- “यस्माद्रक्तं विना दोषैने कदाचित् प्रकुप्यति । तस्मात् तस्य यथादोपं कालं विद्यात् प्रकोपणे ।।" इति । भगवतः पुनर्व्वसोरात्रेयस्य वचन - मैकान्तिकमेवातिशयग्राह्यमिति ख्यापनार्थमृषिगणानुमतत्वमुपदर्शयितु श्लोक उक्तः ।। १८ ।।
गङ्गाधरः- अध्यायार्थामुपसंहर्त्तुमाह-तत्र श्लोकों इति । गुणाः पड़िति वातगुणाः कुशोक्ताः । विविधो हेतुरिति वातप्रकोपणहेतुः । कुमारशिरोभरद्वाजप्रोक्तः प्रशमहेतुः काङ्कायनप्रोक्तः वशिप्रोक्तश्च । वायोर्विविधं चतुव्विधं कर्म्म कुपिताकुपितशरीरचरवहिश्वरस्य । कुपितस्य शरीरचरस्य कम्मे विविधम् । अकुपितशरीरचरस्य कम्मे विविधम् । कुपितस्य वहिवरस्य कम्मे विविधं 1 अकुपितस्य वहिश्चरस्य कम् विविधमिति चतुव्विधं कम्मे । शेषं सुगमम् ||१९||
गङ्गाधरः - अध्यायं समापयति- अग्नीत्यादि । इति निद्देशचतुष्कः । त्रिस्तरवचनं निर्देशः । निर्देशानां चतुर्भिर्निष्पन्न एक इति निर्देशचतुष्कः । इति निर्देशचतुष्कव्याख्या ।
Acharya Shri Kailassagarsuri Gyanmandir
[ वातकलाकलीयः
इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ सूत्रस्थानीयवातकलाकलीयद्वादशाध्याय जल्पाख्या द्वादशी शाखा ॥ १२ ॥
चक्रपाणि: - संग्रहे गुणाः षड़िति रुक्षादयः, द्विविधो हेतुरिति वातप्रकोप हेतुतप्रशमहेतुः, विविधं नानाप्रकारं सन्निखिलमेव वायोः कर्म्म यत् कुपिताकुपिताऽशरीरशरीरचरभेदेन भवति, तदुक्तमिति योजनीयं, न हि चतुर्व्विधव्यतिरेकेण वायोः पृथग्विधं कर्मोक्तम् ॥ १९ ॥
For Private and Personal Use Only
इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां वातकलाकलीयो नाम द्वादशोऽध्यायः ॥ १२ ॥ निर्देशचतुष्कः समाप्तः ।