________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः
५६१
सूत्रस्थानम् । लोके, विकृतास्त्वेन महता विपर्ययेणोपपादयन्ति । ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाले। इत्येतहषयः श्रुत्वा सर्व एवानुमेनिरे वचनमात्र यस्य भगवतोऽभिननन्दुश्चेति ॥ १७ ॥
भवति चात्र। तदात्र यवच. श्र त्या सर्व एवानुमेनिरे।
ऋषयोऽभिननन्दुश्च यथेन्द्रवचन सुराः ॥ १८ ॥ चामुष्मिंश्च लोके उपपादयन्ति। विकृतास्वित्यादि । विकृतास्तु खलु कुपिता वातपित्तश्लेष्माण एनं पुरुषं महता विपर्ययेण व्यापन्नेन्द्रियं बलवर्णमुखानुपपन्नमल्पेनायुषा चोपपादयन्ति। तत्र दृष्टान्तः-ऋतव इत्यादि। विकृतिमापन्नास्त्रय ऋतव उपधानकाले लोकमशुभेन यथोपपादयन्ति तथा । इतीत्यादि। इत्येतत् पुनव्वेमूक्तं वचनं सर्व एव कुशादय ऋषयोऽनुमेनिरे । अभिननन्दुश्च तेन वचनेनेति ॥ १७॥ __ गङ्गाधरः-तत्र वचनं दर्शयति-भवति चात्रेत्यादि। तदात्रेयेत्यादि। ऋषयोऽत्र कुशादयः। यथेन्द्रवचनं श्रखा सर्वे देवा अनुमन्यन्तेऽभिननन्दुश्च तथा। नन्वेवमस्तु सर्वमनपवादं न चास्ति खल्वात्रेयवचनेऽप्यैकान्तिकलं, यत एतदुक्तं सुश्र तेन-“वातपित्तश्लेष्माण एव देहसम्भवे हेतवः। तैरेवाव्यापन्नरघोमध्योद्ध सन्निविष्टः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिमृभिः, अतश्च त्रिस्थूणमाहुरेके। त एव च व्यापन्नाः प्रलयहेतवः। तदभिरेव शोणितचतुर्थः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति। भवति चात्र । "नतें देहः कफादस्ति न पित्तान्न च मारुतात्। शोणितादपि वा नित्यं देह एतैस्तु धाय्यते ॥” इति। एवं “शोणितस्य स्थानं यकृतप्लीहानौ, तच्च प्रागभिहितम् । तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति । भवति चात्र । अनुष्णशीतं मधुरं स्निग्धं रक्तश्च वर्णतः। शोणितं गुरु विस्र स्यात् विदाहश्चास्य पित्तवत् ॥” इति । एवं "पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिश्चाहारैवासमक्रो रानलातपश्रमाभिघाताजीणेविरुद्धाध्यशनादिभिरसक प्रकोपमापद्यते” इति चेत्, सत्यं “शोणिाचतुर्थः” इति वचनेन “त्रिस्थूणमिति” वचनेन च शोणितस्थ वातपित्तश्लेष्मपरतन्त्रलं ख्यापितम्। न तु त इव स्वतन्त्राः स्वतन्त्र स्वकोपनैः कुपितमकुपितञ्च प्रकोपणविपर्ययैः किश्चिदशुभं
For Private and Personal Use Only