________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८८
चरक संहिता |
वातकलाकलीयः
मारीचिरुवाच अग्निरेव पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति । तद्यथा- पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमुष्मणः प्रकृतिविकृतिवणं शौय्यं भयं क्रोधं हर्ष मोहं प्रसादमित्येवमादीनि चापराणि इन्द्रादीनि इति ॥ १५ ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
श्वरस्य वायोर्वचनं विज्ञानञ्च सप्रयोजनं भवति । तथा वायोर्यथार्था स्तुतिरपि भवत्या रोग्यादिनिमित्तायेति || १३ | १४ ||
गङ्गाधरः- मारीचिरुवाचेति । तद्वाय्यविवचनं श्रुत्वा मारीचिरुवाच । यदुवाच तदाह - अग्निरेवेत्यादि । न केवलं वायुः कुपिताकुपितः शुभाशुभानि करोति । यथा वायुस्तथाग्निस्तेजोभूतं पित्तान्तर्गततेजोभूतबहुलपञ्चभूतविकारसमुदायात्मकं हि पित्तं पञ्चात्मकं तदन्तर्गतोऽग्निः पञ्चसु पित्तेषु वर्त्तमानः कुपिताकुपितः शुभाशुभानि करोति । न तु तदन्तर्गतानि वाय्वादीनि । वाय्वादीनि वा इत्येवशब्देन व्यावर्त्तयते । पित्तेनेत्युक्त्या धावन्तरस्थानामुष्मणां व्यावृत्तिः कृता । कानि शुभानि कानि चाशुभानि करोतीति, अत आह—- तद्यथेत्यादि । यथा पत्यपत्यादिकं करोति । अकुपितो वह्निः पित्तान्तःस्थः पक्तिं दर्शनमुष्मणो मात्रां देहादेः प्रकृतिवर्ण शौय्यं हर्षमेवमादीनि शुभानि करोति । कुपितस्तु पित्तान्तःस्थो वह्निरपक्तिमन्नानामदर्शनमुष्मणोऽमात्रखं देहादेविकृतिवर्ण भयं क्रोधं मोहमेवमादीनि खशुभानि कर्माणि करोति । इति । सुश्रुते चैकविंशतितमेऽध्यायेऽभिहितम् अत्र जिशास्यम् - किं पित्तव्यतिरेकादन्योऽग्निः ? आहोस्वित् पित्तमेवाग्निरिति । अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते । आग्नेयत्वात् पित्ते दहनपचनादिष्वभिवर्त्तमानेऽग्निवदुपचारः क्रियतेऽन्तरग्निरित्यादि । क्षीणे ह्यग्निगुणे तत्समानगुणद्रव्योपयोगादतिवृद्धं शीतक्रियोपयोगादागमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति । तच्चादृष्टहेतुकेन विशेषेण पकामाशयमध्यस्थं पित्तं चतुब्बिंधमन्नं पचति
For Private and Personal Use Only
.
चक्रपाणिः -- तच त्वेत्यादि सुगमम् । वर्चस्वत्वं तेजस्वित्वम् । पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नः सद्भावं दर्शयति, न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्, तथा पित्तहरस्य सर्पिषोऽग्निवर्द्धनत्वेनोक्तत्वात् । पक्तिमपक्तिमित्यविकृति विकृतिभेदेन पाचकस्याग्नेः कर्म, दर्शनादर्शने नेत्रगत स्यालोचकस्य, उष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य, भयशौर्थ्यादयो हृदयस्थस्य साधकस्य :