SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः ] सूत्रस्थानम् । ५८६ तत् श्रस्वा मारीचिवचः काश्यप उवाच सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति । तद्यथा— दाढी शैथिल्यमुपचयं कार्यमुत्साहमालस्यं वृषतां क्लीवतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि इन्द्रादीनि इति ॥ १६ ॥ विवेचयति च रसदोषमूत्रपुरीषाणि । तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चानिकम्मेणाऽनुग्रहं करोति । तस्मिन् पित्ते पाचकोऽग्निरितिसंज्ञा । यत् तु यत्लीहोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा । स रसस्य रागकृदुक्तः । यत् पित्तं हृदयसंस्थितं तस्मिन् साधकोऽग्निरिति संज्ञा । सोऽभिप्रार्थितमनोरथ साधन कुदुक्तः । यद् दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति संज्ञा । सरूपग्रहणेऽधिकृतः । यत् तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा । सोऽभ्यङ्गपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता च्छायानाञ्च प्रकाशक इति ||" इह च पत्त्यपक्तिभ्यां पावको जाठराग्निरुक्तः । दर्शनादर्शनाभ्यामालोचकोऽग्निः । उष्मणो मात्रामात्रलाभ्यां भ्राजकोऽग्निः । प्रकृतिविकृतिवणाभ्यां रञ्जकोऽग्निः । शौर्यादिभिस्तु साधकोऽग्निरुक्तः । अपराणि द्वन्द्वादीनि सुखदुःखादीनि ॥ १५ ॥ गङ्गाधरः- अथैतन्मारीचिवचः श्रुखा काश्यप उवाच - सोम एवेत्यादि । शरीरे इलेप्मान्तर्गतः सोम एव धातुरापो नाम भूतं कुपिताकुपितः शुभाशुभानि करोति, न तु वायुर्वाग्निर्वा । सोमबहुलपञ्चभूतात्मकस्तु श्लेष्मा | तत्रस्थः सोमोऽब्धातुः, न वन्योऽन्धातुः । कानि शुभानि कानि चाशुभानि करोतीति ? अत आह— तद्यथेत्यादि । अकुपितश्लेष्मान्तर्गतसोमो धातुः शरीरदा मुपचयमुत्साहं वृषतां ज्ञानं बुद्धिमेवमादीनि चापराणि द्वन्द्वादिषु शुभानि करोति । धैय्र्यं सुखादीनीत्यादिना गृह्यते । कुपितश्लेष्मान्तर्गतस्तु सोमो धातुः शरीरस्य शैथिल्यं कार्यमालस्यं क्लीवतामज्ञानं मोहञ्चेत्येवमादिषु द्वन्द्वादिषु अशुभानि अधैय्र्यदुःखादीनि च करोतीत्यादिशब्देनोक्तम् । सुश्रुते चोक्तम्- "इलेष्मा तु पञ्चधा, क्लेदकोsवलम्बको रञ्जकस्य तु वहिः स्फुटार्थ्यादर्शनादुदाहरणं न कृतम् ; सोमो जलदेवता, यदि वा, चन्द्रः ॥ १५॥१६ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy