________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८६
चरक-संहिता। [ वातकलाकलीयः प्रतिसरणमापगानाम् आकम्पनश्च भूमेराधमनमम्बुदानां शिखरिशिखरावमथनमुन्मथनमनोकहानां नीहारनिर्वादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसगों व्यापादनश्च षण्णामृतूनां शस्यानामसङ्घातो भूतानाञ्चोपसो भावानाञ्चाभावकरणम्। चतुयुगान्तकराणां मेघसूर्य्यानलानां * विसर्गः ॥ ११ ॥
स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर्विधाता मृत्युर्यमो नियन्ता प्रजापतिरदितिर्विश्वजलवदनाद्ध प्रवर्त्तनम् । प्रतिसरणमापगानां नदीनां विपरीतस्रोतोगमनम्। भूमेराकम्पन कम्पः। अम्बुदानां मेघानामाधमनमतिशब्दजननम। शिखरिशिखरावमथनं पव्वेतानां शृङ्गभञ्जनम् । उन्मथनमनोकहानां वृक्षाणां भञ्जनम् । नीहारादीनां विसर्गः। निर्हादो ध्वनिः। क्षारो भस्मादिः। रुधिरं रक्तम् । अश्म क्षुद्रप्रस्तरम् । अशनिवेत्रः । एषां विसर्ग आकाशाद्वर्षणम् । व्यापादनश्च पण्णामृतूनां व्यापज्जननमतियोगायोगमिथ्यायोगलक्षणकरणम्। शस्यानाम् असङ्घातोऽपुष्टिकरणम् । भूतानाञ्चोपसर्गः राक्षसादीनामुपद्रवः ।भावानांचाभावकरणं वस्तूनामभावकरणम् । चतुयुगान्तकराणां मेघादीनां विसर्गः प्ररणम ॥११॥
गङ्गाधरः-कस्मादेवं करोति कुपितो वहिश्वरो वायुरिति ? अत आह-। स हीत्यादि। हि यस्मात् स भगवान वायुः प्रभवश्वाव्ययश्च भूतानां सुखादीनामार्द्राणामेव विक्लेदोपशोपणं, शस्यानामेवावैकारिकविकारेण सर्व्वस्मिन्नेव जगति प्रकृतिरूपकारणत्वं व्रते। शिखरी पर्वतः, भनोकहो वृक्षः, ऊद्ध वर्तनमुद्वर्त्तनं, प्रतिसरणं प्रतीपगमनम् ; विसर्जनं विसर्गः, स च पृथङनीहारादिभिः सम्बध्यते ; नीहारः शिशिरसमूहः, निर्वादो मेघ विना गर्जितम्, अशनिवज्रभेदोऽग्निः, असङ्घातोऽनुत्पादोऽनुपचयो वा, उपसर्गो मारकादिप्रादुर्भावः, मेघसूर्यत्यादौ विसर्ग सृष्टिः, वायुरिह देवतारूपोऽभिप्रेतः, तेन, तस्य भूतरूपचतुर्युगान्त. करानिलकरणलिङ्गम् अविरुद्धम् ; एवं यदन्यदप्यनुपपद्यमानं वायोस्तदपि देवतारूपत्वेनैव समाधेयम् ॥ ७-११॥
चक्रपाणिः-सम्प्रति सामान्येन पुनः कुपिताऽकुपितस्य वायोः स्वरूपमुच्यते-स हि भगवानित्यादि। प्रभवः कारणम्, अव्ययोऽभयः, भूतानामित्युत्तरेण सम्बध्यते, मृत्युर्यमादि
* मेघसूर्यानलानिलानामिति पाठश्चक्रपाणिसम्मतः ।
For Private and Personal Use Only