________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः ]
सूत्रस्थानम् ।
५८५
तद्यथा - धरणीधारणं ज्वलनोज्ज्वालनम् आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं सृष्टिश्च मेघानाम् अपाञ्च विसर्गः प्रवर्त्तनं स्रोतसां पुष्पफलानाञ्चाभिनिव्वेर्त्तनमुदभेदनञ्चद्भिदानाम् ऋतूनां प्रविभागः विभागो धातूनां धातुमानसंस्थानव्यक्ति: वीजाभिसंस्कारः शस्याभिवर्द्धनम् अविलेोपशोषणमक रिकविकाराश्चति ॥ १० ॥
प्रकुपितस्य खल्वस्य लोकेषु चरतः कम्र्माणीमानि भवन्ति । तद्यथा- उत्पीड़नं सागराणामुद्वर्त्तनं सरसां
७४
Acharya Shri Kailassagarsuri Gyanmandir
विवह परिवहपरावा इति सप्तात्मनः कम्पणीमानि वक्ष्यमाणानि भवन्ति । तद्यथेत्यादि । तेषां सप्तानां कर्माणि साधारणत्वेनाह - धरणीधारणमित्यादि । धरणीधारणं भूगोलधारणम् । ज्वलनस्याग्नेज्वलनम् । आदित्यादीनां ग्रहगणानां धारावाहिगतिविधानमित्यावहस्य कर्माणि । सृष्टिश्व मेघानाम् । अपां विसर्गः । स्रोतसां प्रवर्त्तनम् । पुष्पफलानामभिनिर्व्वर्त्तनम् । औद्भिदानामुद्ध दनमित्युद्वहस्य कम्र्माणि । ऋतूनां प्रविभागो धातूनां विभागो धातूनां मानसंस्थानव्यक्तिश्चेति प्रवहस्य कर्माणि । वीजानामभिसंस्कारो गुणाधानं शस्याभिवर्द्धनं विक्लेदहीनानामुपशोषणम् । अवैकारिकविकाराच संवहस्य कर्माणि । एवमन्यान्यपि द्रष्टव्यानि यानि व्यासोक्तानि मात्रा - शितीये दर्शितानि ॥ १० ॥
गङ्गाधरः - अथ प्रकुपितस्य लोके चरतोऽस्य सप्तस्कन्धस्य प्रवहाद्यात्मकस्य कर्माणीमानि भवन्ति - तद्यथा, उत्पीड़नमित्यादि । लोके चरतो वायोः प्रकोपकारणमुक्तं व्यासेन - "विष्णोनिश्वासतो वातो यदा वेगसमीरितः । सहसोदीय्येते तात जगत् प्रव्यथते तदा ॥” इति । एवं प्रकुपितस्य सप्तस्कन्धस्य वहिश्वरस्य वायोः कर्म्म | सागराणामुत्पीड़नमुत्प्लावनम् । सरसामुद्वत्तेनमधिकआदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तानगतिविधानं, स्रोतसामिति नदीनां, प्रविभागो विभागलक्षणं, धातूनामिति पृथिव्यादीनां धातवः कार्यद्रव्याणि प्रस्तरादीनि, मानं परिमाणं संस्थानमाकृतिस्तयोर्व्यक्तिरभिव्यक्तिः कारणमिति यावत्; वीजस्य शाल्यादेः, अभिसंस्कारोऽङ्कुरजननशक्तिः, अविक्लेद: पाककालादय्वगविक्लिन्नत्वम्, उपशोषणञ्च पाकेन यवा
For Private and Personal Use Only