________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातकलाकली.
५८४
चरक-साहता। स्थलाणुस्रोतसां भेत्ता कर्ता गर्भाकृतीनाम्। आयुयोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः ॥८॥ - कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय । मनो व्याहर्षयति सन्द्रियाण्युपहन्ति । विहन्ति गर्भान् विकृतिमापादयत्यतिकालं धारयति। भयशोकमोहदैन्यातिप्रलापान् जनयति प्राणांश्वोपरुणद्धि ॥६॥
प्रकृतिभूतस्य खल्वस्य लोके चरतः काणीमानि भवन्ति । प्रेरकः। दोषसंशोषणः शरीरक्लेददृद्धौ दोषे संशोषकरः। क्षेप्ता वहिमेलानां मूत्रपुरीपादीनां क्षेप्ता वहिष्करणकर्ता। स्थूलाणुस्रोतसां स्थूलानां मूक्ष्माणाञ्च स्रोतसां भेत्ता गलनासिकादिपु च्छिद्राणां निर्माणकर्ता। कर्ता गर्भाकृतीनां देहावयवानां निर्माणकर्ता। आयुषोऽनुत्तिप्रत्ययभूतः शारीरवायुगमनेनायुषोऽनुत्तिरनुमीयते। इत्येवंभूतो भवत्यकुपितो वायुः शरीरचरः॥८॥
गङ्गाधरः--अथ कुपितस्य शारीरस्य काण्याह-कुपितस्तु खल्वित्यादि । तुशब्दैन शरीरचरो वायुरनुवर्तते। खलु वाक्यालङ्कारे। शरीरचरो वायुः कुपितः सन नानाविधैज्वेरादिभिर्व्याधिभिः शरीरमुपतपति। ततो बलवर्णसुखायुषामुपघाताय भवति। मनो व्याहषयति ग्लायति । सचेन्द्रियाणि दशेन्द्रियाणि उपहन्ति । गर्भान् विहन्ति । गर्भान् विकृतिमङ्गवैगुण्यमापादयति प्रापयति । गर्भानतिकालं प्रसवकालमतीत्य धारयति। भयादीन् जनयति । प्राणांचोपरुणद्धि मारयति । इति कुपिताकुपितस्य शरीरचरस्य वायोः कर्माणि व्याख्यातानि भवन्ति ॥९॥
गङ्गाधरः-अथ शरीरेभ्यो पहिलोंके चरतोऽकुपितस्य वायोः कर्माणि व्याख्यायन्ते। तदयथा-प्रकृतिभूतस्येत्यादि। प्रकृतिभूतस्याकुपितस्यास्य वायोलोके चरतः सप्तस्कन्धस्य तस्याशितीये दर्शितस्य प्रवहावहोद्वहसंवहव्याप्रियमाणत्वात्, मूलं प्रधानकारणम् ; उत्साहः कार्येषूद योगो मनसः, योनिरभिव्यक्तिकारणं, दोषसंशोषणः शरीरक्लेदसंशोषणः, भेत्ता कर्ता,-एतरच शरीरोत्पत्तिकाले ; भूतशब्दः स्वरूपवचन', अपघालायेति च्छेदः, गर्भानिति विकृतिमापादयत्यतिकालं धारयतीत्यनेन च सानध्यते ।
For Private and Personal Use Only