________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८३
१२श अध्यायः
सूत्रस्थानम् । सर्बेन्द्रियाणामुद्दयोतकः - सर्बेन्द्रियार्थानामतिवोढ़ा सर्वशरीरधातुव्यहकरः सन्धानकरः शरीरस्य प्रवर्तको वा+। अतः प्रकृतिः स्पर्शशब्दयोः श्रोत्रस्पर्शनयोर्मलं हर्षोत्साहयोयोनिः समीरणोऽग्नेर्दोषसंशोषणः क्षेप्ता वहिर्मलानां नियन्ता प्रणेता च। मनो यस्मिन प्रवत्ततेऽथ न प्रवत्तते तत्र नियमकवायुः । मनो यत्र गच्छति न वा गच्छति तत्र प्रणेता नायको वायुः। सर्वेन्द्रियाणां दशानां श्रोत्रादीनामुद्योतकः प्रकाशकः। सव्वेषामिन्द्रियार्थानां शरीरगतानां शब्दादीनामतिवोढ़ा। सर्वेषां शरीरधातूनां व्यूह सङ्घातं करोति ; रचनाकृदिति। शरीरस्य सन्धानकरः शरीरावयवसंयोजनकृत् । प्रवर्तको वा शरीरस्येवेति। शरीरावयवानां स्वस्त्रक्रियायां प्रवत्तकः प्रेरकः। अतः शरीरगतयोः शब्दस्पर्शयोः प्रकृतिर्वायुरेव, न खाकाशः। शब्दानां मूलप्रकृतिवेऽप्याकाशस्य शब्दाभिव्यक्तिने ह्याकाशाद्भवति, न वाकाशीयशब्दो हेवन्तरेणाभिव्यज्यते ; आकाशानुप्रवेशेन वायो यः शब्दः स च तदनुप्रवेशेन च तेजःप्रभृतिषु यः शब्दः स स च पाश्चभौतिके शरीरधातौ सर्व एकीभूय स्थूलशब्दो जातः, स एव वायभिहननेनाभिव्यज्यते, इति शब्दप्रकृतिवायुन तु वायुरेव न बन्येति नियमः। तथा स्पर्शस्य प्रकृतिर्वायुः। वायोरनुप्रवेशात तेजोऽम्बुपृथिवीपूष्णशीतखरस्पशाः स्पर्श विशेषा अपि स्पशस्य मूलप्रकृतिर्वायुः। अतः श्रोत्रस्पर्शनयोरिन्द्रिययोमूलं कारणम् । यद्यपि चाकाशबहुलपाञ्चभौतिक श्रोत्रं तथापि चाकाशवद्वायुरपि तदाकाशात् न्यूनः श्रोत्रे तेजःप्रभृतिभ्योऽधिकः क्रियाहेतुत्वात् । अन्यथा श्रोत्रे शब्दग्रहणक्रियाया अनुपपत्तिः। हर्पोत्साहयोयोनिः । हर्ष आहादः, उत्साहः कार्येषु मनस उद्योगः ; तयोर्यानिरभिव्यक्तिकारणम् । समीरणोऽग्नेः जाठराग्नेः सन्युक्षणविषये प्रवर्त्तमानस्य मनसः ; प्रणेता च मनस एवेप्सितेऽर्थे उद्योजकः किंवा, उद्योगकारकइति वा पाठः, सोऽप्यभिन्नार्थः । अभिवोढेवाभिवोढा सर्वेन्द्रियग्राहकत्वेन, तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्बेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम्। न्यूहकरः सङ्घातकरो रचनाकर इति यावत् ; प्रकृतिः कारणं, शब्दकारणत्वञ्च वायोर्नित्यमाकाशानुप्रवेशात्, उक्त हि खादीन्यभिधाय-"तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे” इति ; पुनरुक्त खादीन्यभिधाय “विष्टं ह्यपरं परेण इति । श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे * उद्योजक इति चक्रपाणिः।
+ प्रवर्तको वाच इति चक्रपाणिः ।
For Private and Personal Use Only