________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
चरक-संहिता। (बातकलाकलीयः यानि तु स्वल वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि वहिः शरीरेभ्यो वा भवन्ति । तेषामवयवान् प्रत्यक्षानुमानोपमानैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः ॥७॥
वायुस्तन्त्र-यन्त्र-धरः प्राणोदान-समानव्यानापानात्मा प्रवर्तकश्चेष्टानामुच्चावचानां नियन्ता प्रणेता च मनसः ।
यानि खित्यादि-पञ्चमप्रश्नोत्थापनम् । कुपिताकुपितस्य शरीराशरीरचरस्य वायोः शरीरेषु चरतो यानि कर्माणि शरीरेभ्यो वहिलोके चरतश्च वायोर्यानि कर्माणि भवन्ति पृष्टानि, वायवे नमस्कृत्य तेषां कम्मेणाम् । असंख्येयवेन कात्स्नेन वक्तमशक्यवादवयवान् कतिचित् यानाप्तोपदिष्टांस्तान् प्रत्यक्षानुमानोपमानैः प्रमाणैः साधयिखा यथाशक्ति प्रवक्ष्यामो व्याख्यास्यामः॥७॥
गङ्गाधरः--तव्यथा-वायुस्तन्त्रेत्यादि। तन्त्रं शारीरधातूनां यस्य यो नियमस्तस्य धारणकृद्धायुः। यत्रधरश्च यत्रमस्य शरीरस्य धातूनां यथा यत्र यस्य चलनस्थानभ्रमणादिव्यापारी येन भवति तद् यन्त्रं तस्य धारणकृत, प्राणादिपञ्चरूपः। तत्र चोक्तम्--"स्थानं प्राणस्य मृद्धौरः कण्ठजिहास्यनासिकम् । ष्ठेवनं शवथूगार-श्वासकासादिकर्मकृत् ॥ १। वृषणो वस्तिमेढश्च श्रोण्यूरुवाणं गुदम। अपानस्थानमेतत् तु शुक्रमूत्रशकृतक्रियः। २। समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः। भुक्तं गृह्णाति पचति विवेचयति मुञ्चति । ३। उदानस्य पुनः स्थानं नाभ्युरःकण्ठ एव च। वाक्प्रत्तिश्च यनौजो-बलवर्णाग्निकर्मकृत् । ४ । देह व्यामोति सर्वन्नु व्यानः सर्वगतिनृणाम् । गतिप्रसारणाक्षेप-निमेषादिक्रियः सदा । ५।” इति । उच्चावचानां प्रवर्तक इति। उच्चैश्च नीचैश्च चेष्टानां सर्वासां प्रवत्तकः प्रेरकः। मनसो
चक्रपाणिः-शरीराशरीरचरस्येति वातस्वरूपकथनं, तेन, शरीरेषु चरत इति वहिः शरीरेभ्यो वेति च पुनरुक्त न भवति ; अत्रावयवानिति वचनं, कास्नगाभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति ; साधयित्वा प्रतिपाद्य, तन्त्रं शरीरं, यदुक्त ---"तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्तं प्रविवक्षताम्” तदेव यन्तम्, यदि वा, तन्तस्य यन्त्रं सन्धयः । प्राणाद्यात्मा प्राणादिस्वरूपः, चेटाविशेषणम्-उच्चावचानां विविधानाम् इत्यर्थः, किंवा शुभाशुभानामित्यर्थः ; नियन्ताऽनीप्सिते
For Private and Personal Use Only