________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः सूत्रस्थानम् ।
५८१ यन्ति प्रशमयन्ति वा। तथानुव्याख्यास्यामः ;--वातप्रकोपणानि खलु रुक्षलघशीतदारुणखरविशदशुषिरकराणि शरीराणाम्। तथाविधेषु शरोरेषु वायुराश्रयं गत्वा आप्याय्यमानः प्रकोपमापद्यते। वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणाम्। तथाविधेषु शरीरेषु वायुरासज्जम नश्वरन् प्रशान्तिमापद्यते ॥६॥
तत् श्रुत्वा शिवचनमविथभृषिगणैरनुमतमुवाच वार्योंविदो राजर्षिः, एवमेतत सर्वमनपवादं यथा भगवानाह।
प्रशमनानि प्रशमयन्ति तथानुव्याख्यास्यामः। तद्यथा-वातप्रकोपणानि खलु रुक्षादीनि द्रव्याणि रुक्षादिशुषिरान्तकराणि शरीराणां भवन्ति । तथाविधेषु शरीरेपु रुक्षादीन्यासेवमानानां जनानां रुक्षादिगुणवत्सु शरीरेषु शुषिरान्वितेषु वायुराश्रयं गवावकाशं प्राप्याप्याय्यमानो विवद्धामानश्चलस्वभावः सव्वत्रातिशयेन चलति। शरीरेऽवकाशलाभात् सुतरां प्रकोपम् आपद्यते इत्युच्यते। वातप्रशमनानि पुनरिति । रुक्षादिगुणविपरीतानि खलु स्निग्धगुरूष्णादीनि घनकराणि सेवमानानां जनानां रुक्षादिभिः शुषिरमापन्नेषु शरीरेप स्निग्धादिभिर्घनीभूतेषु शुपिररहितेषु वायुरवकाशमलब्ध्वा खल्वासज्जमानः स्थिरो भवंश्चरन् प्रशान्तिमापद्यते। इति ॥६॥
गङ्गाधरः--तत् श्रुखेत्यादि। एवमुक्तं धामार्गववड़िशवचनं तत्र स्थितैऋषिगणैरवितथं बुद्धानुमतं तच्छुखा वायॊविदो राजर्षिरुवाच-भगवान् भवान् यथाह एतत् सर्वमनपवादमपवादवचनहीनमेवमेव भवति। एवमेव प्रकोपणानि प्रकोपयन्ति। एवमेव च प्रशमनानि वातं प्रशमयन्तीति ।
समानगुणस्थानम्, आप्याय्यमानश्चीयमानः, दारुणविपरीतो मृदुः शुपिरविपरीतो धनः, आसज्यमानोऽनवतिष्ठमानः क्षीयमाणावायव इति यावत् ; एतेनैतदुक्तं भवति, यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति, तथापि शरीरसम्बद्धै स्तैर्वातस्य शरीरचारिणः सम्बन्धो भवति, तराश्च वातस्य समानगुणयोगात् वृद्धिर्विपरीतगुणयोगाच्च हास उपपन्न एवेति॥ ५॥
For Private and Personal Use Only