________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
चरक-सहिता। [वातकलाकलीयः ता श्रुत्वा वाक्यं काङ्कायनो व हीकभिषगुवाच, एवमेतत् यथा भगवानाह। एतान्येव वातप्रकोपणानि भवन्ति । अतो विपरीत.नि खल्वस्य प्रशमनानि भवन्ति। प्रकोपविपर्ययो हि धातूनां प्रशमकारणमिति ॥ ५॥
तत् श्रु त्वा वाक्यं वडिशो धामार्गव उवाच, एवमेतद् यथा भगवानाह। एतान्येव वातप्रकोपप्रशमनानि भवन्ति । यथा होनमसङ्घतमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपगुणा वर्तन्ते । रुक्षवादिधर्मजनकप्रभावास्तु कम्मसु वर्तन्ते। प्रभावोऽचिन्त्यशक्तिः। कर्मापि निश्चेष्टसमवायिकारणलेन गुणशब्देन गुण इवाभिधीयते। तेन समानगुणाभ्यास इति समानगुणकाभ्यासः। नफवारापसेवितः समानगुणः कर्म वा वृद्धिकारणं भवतीति सूचनार्थमभ्यास इत्युक्तमिति ॥४॥
गङ्गाधरः-तदित्यादि। एवमुक्तं कुमारशिरसा वाक्यं श्रुखा काङ्कायनो वाहीकभिषगुवाच-भगवान् भवान् यथाह एतदेवमीदृशं मवति। यत एता. न्येव भवदुक्तानि वातप्रकोपणानि भवन्ति। अतो विपरीतानि रुक्षादिविपरीतानि खलु स्निग्धगुरू णमृदुश्लक्ष्णपिच्छिलस्थूलस्थिरगुणद्रव्याणि तत्प्रभावाणि च कर्मा,ण अस्य प्रकुपितस्य वातस्य प्रशमनानि भवन्ति । कस्मात् ? प्रकोपणविपर्ययो हि यस्माद् धातूनां प्रशमकारणमिति। एकद्वित्रयादिगुणतो यथा प्रकापः स्यात् तथकत्रियादिगुणद्रव्यस्तथैवप्रभावैः कर्मभिर्धातूनां प्रशमः स्यादिति ॥५॥
गङ्गाधरः--तत् श्रुखेत्यादि । काकायनस्य तद्वाग्यं श्रुखा धामागवो वड़िशो महषिरुवाच-एवमित्यादि । भगवान् भवान् यथा वातप्रशमनान्युवाच, एतदेवम् ईदृशमेव भवति। यत एतान्येव वातप्रकोपस्य प्रशमनानि भवन्ति । यथा हीत्यादि। यथा खल्वेनं वायु रुक्षादिगुणमसङ्घात सूक्ष्ममनवस्थितं चलं रुक्षादीनि प्रकोपणानि प्रकोपयन्ति। यथा च तदगुणविपरीतानि रिति प्रभावाद्रगोक्षादिकारकैर्धावनजागरणादिभिः, प्रभावाभिधानञ्च कर्मणां निगुणत्वात् ; अभ्यस्यमानैरिति न सकृत्प्रयुक्तः ॥ ॥४॥
चक्रपाणिः-शरीरागाति शरीरावयवानां शुपिरकराणि रन्ध्रकराणि, आश्रयमिक
For Private and Personal Use Only