________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७६
१२श अध्यायः
सूत्रस्थानम् । अत्रोवाच कुशः साङ्कत्यायनः, रुक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति ॥३॥
तत् श्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच, एवमेतद यथा भगवानाह, एत एव वातगुणा भवन्ति । स त्वेवंगुणेद्रव्यैः एवंप्रभावश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते । समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति ॥ ४ ॥
गङ्गाधरः-एपामुत्तराणि क्रमेण दर्शयति--अत्रोवाचेत्यादि। अत्र एष प्रश्नेषु मध्ये प्रथमप्रश्नोत्तरं साङ्क त्यायनः कुशो महर्षिरुवाच तद्यथा, रुक्षेत्यादि। रुक्षादय इति गुणवचनाः शब्दाः शुक्लादिवत्, मखर्थीयप्रत्ययलोपे धर्मिपराश्च भवन्ति, तथैवोक्तं पूर्बाध्याये रुक्षः शीतो लघुरित्येवमादिवचने ; न च लक्षणया तथा प्रयोगः साधः स्यात् । शुक्लादयो गुणे हि पुसि वर्तन्ते, तेषां गुणिलक्षणायामपि स्वलिङ्गत्यागाभावाद् गुणिलिङ्गानुपपत्तिभवति । ततः शुक्लः पटः शुक्ला साटी शुक्ल वस्त्रमित्येवं न भवति । पूर्वाध्याये सप्तगुणो वायुरुक्तः। तत्र सूक्ष्मश्चलश्चोक्तः। इह तु नोक्तः। परन्तु दारुणो गुणोऽधिक उक्तः। पड़िये वातगुणा इति चोक्तम्। तेन न विरुद्धमाशङ्काम् । प्रश्नेऽनवस्थितवचनेन चलखं कर्म प्रसिद्धमिति मला नेहोक्तम् । सक्ष्मखञ्च प्रश्नऽसङ्घातवचनेनोक्तम् । तदप्यनुमत्येह नोक्तमिति ॥३॥
गङ्गाधरः--इति साङ्क त्यायनकुशस्य वातगुणवचनं वाक्यं श्रुखा कुमारशिरा भरद्वाज उवाच-एवमेतदित्यादि। भगवान् भवान् यथैवमेतद् रुक्षलघुशीतेत्यादयो गुणा वातस्येत्युवाच, एत एव रुक्षादयो वातगुणा भवन्ति । तथाविधगुणस्य वायोः प्रकोपणानि खल्वेवं भवन्ति। तद्यथा-स खेवमित्यादि । स तु रूक्षलघुशीतादिगुणो वायुरेवंगुणे रूक्षलघुशीताद्यन्यतमानेकद्व प्रकगुणैव्यैरेवंप्रभावै रुक्षादिगुणजनकधर्माजनकप्रभावैर्धावनरात्रिजागरणादिभिः कर्मभिश्चानेकद्वप्रकगुणतः प्रकोपमापद्यते। कस्मात् ? समानगुणाभ्यासो हि यस्माद् धातूनां वृद्धिकारणमिति। कर्मसु न रौक्ष्यादयो
चक्रपाणि:-रुक्षादयो भावप्रधानाः, तेन, रुक्षत्वादयो गुणा मन्तव्याः ; दारुणत्वं चलत्वं चलत्वात् यदि वा, दारुणत्वं शोषणत्वात् काठिन्यं करोति, दीर्घञ्जीवितीयोक्त चलत्वमुक्त भवति। कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम् । एवंप्रभावै
For Private and Personal Use Only