________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
वातकलाकलोयः
५७८
चरक-संहिता। वातकलाकलोयः वातकलाकलाज्ञानमधिकृत्य परस्परमेतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योन्यम्। किंगुणो वायुः किमस्य प्रकोपणमुपशमनानि वास्य कानि ? कथं चैनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा ? कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि वहिः शरीरेभ्यो वेति ? ॥२॥
गङ्गाधरः-अधिकारात् प्रसङ्गतः पित्तादीनां कलाकलाज्ञानाय यद्वक्ष्यते तदपि परिगृह्यते । वातकलाकलेत्यादि। वातकलाकलाशानं वातस्यांशांशयोः ज्ञानमधिकृत्य महर्पयः सांकृत्यायनकुशादयः समुपवेश्य परस्परमेतानि वक्ष्यमाणानि किंगुणो वायुरित्यादीनि जिज्ञासमाना ज्ञातुमिच्छन्तोऽन्योन्यं परस्परं पप्रच्छुः। यानि पप्रच्छुस्तानि क्रमेण दर्शयति–किंगुण इत्यादि। को गुणो यस्य स किंगुणो वायुरिति प्रथमः प्रश्नः। किमस्य वायोः प्रकोपणं प्रकोपयतीति नन्द्यादिखात् युच। वायोः प्रकोपकारणं किं भवतीति द्वितीयः प्रश्नः । एवमस्य कुपितस्य वायोरुपशमनानि कानि भवन्तीति तृतीयः प्रश्नः । कथमित्यादि। कथश्च केन प्रकारेण खल्वेनं कुपितं वायुमसङ्घातममूर्तमनवस्थितं सततचलस्वभावादस्थिरं ततो न ग्रहणाहम् । अतोऽनासाद्य न प्राप्य प्रकोपणानि कथं :प्रकोपयन्ति प्रशमनानि वा कथं प्रशमयन्तीति चतुर्थः प्रश्नः। अथास्य च वायोः शरीराशरीरचरस्य शरीरचरस्य लोकेषु चरस्य च कुपितस्य चाकुपितस्य च खलु शरीरेषु चरतः कानि कर्माणि, शरीरेम्यो वहिलोकेषु चरतो वा कानि कम्मोणीति पञ्चमः प्रश्नः ॥२॥
गुणविरुद्धो दोष', वातकलाकलीयो वातगुणदोषीय इत्यर्थः । यदि वा कला सूक्ष्मो भागः, तस्यापि कला कलाकला तस्यापि सूक्ष्मो भाग इत्यर्थः ॥१॥
चक्रपाणिः---अत्रानेकर्षिवचनरूपतया वातादिगुणकथनं, बहषिसम्मतिदर्शनार्थं तन्त्रधम्मैतिह्ययुक्तत्वकरणार्थञ्च। असङ्घातमिति पित्तश्लेष्मवदवयवसङ्घातरहितम्, अनवस्थितमिति चलस्वभावम्, अनासादेवति चलत्वेनाऽनिविड़ावयत्वेन चेति मन्तव्यम् ॥ २॥
For Private and Personal Use Only