________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम्।
५७५ स त्रातारमनासाद्य बालस्त्यजति जीवितम् । गोधा लाङ्ग लबद्धेवाकृष्यमाणा बलीयसा॥ तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा।
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः ॥३३॥ त्यजति। कथम् ? गोधेत्यादि। लाङ्गले बद्धा गोधा यथा बलीयसा जनेन आकृष्यमाणा जीवितं त्यजति । ___ तस्मादित्यादि। तस्माद्धेतोः य आत्मनः सुख मिच्छेत् स खलं प्रागेव रोगेभ्यो जनिष्यमाणेभ्यो रोगेभ्यः पूर्व दोषं चये प्रकोपे वा प्रसरे वा स्थानसंश्रये पूर्वरूपे वा भैषज्यस्तच्चयादीनि प्रतिकुर्चीत। रोगेषत्पन्नेषु तरुणेषु अजातमूलेषु भेषजैस्तान् रोगान् प्रतिकुर्वीत । इति । उक्तञ्च सुश्रुतेऽपि एकविंशतितमे व्रणप्रश्नाध्याये सूत्रस्थाने “तत्र सञ्चितानां दोषाणां स्तब्धपूर्ण कोष्ठता पीतावभासता मन्दीष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति । तत्र प्रथमः क्रियाकालः । अत ऊ प्रकोपणानि वक्ष्यामः” इत्यारभ्य “तेषां प्रकोपात् कोष्ठतोदसञ्चरणाम्लिकापिपासापरिदाहोऽन्नद्वेषहृदयोत्क्लेशाश्च भवन्ति । तत्र द्वितीयः क्रियाकालः। अत ऊद्ध प्रसरं वक्ष्यामः । तेषामेभिरातकविशेषः प्रकुपितानां पय्यु पितकिण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति। तेषां वायुगतिमत्ता प्रसरणहेतुः । सत्यप्यचैतन्ये स हि रजोभूयिष्ठो रजश्च प्रवर्तकः सव्वभावाणाम्। यथा महानुदकसञ्चयोऽतिवृद्धः सेतुमवदी-परेणोदकेन व्यामिश्रः सव्वतः प्रधावत्येवं दोषाः कदाचिदेकशी द्विशः समस्ताः शोणितसहिता वानेकधा प्रसरन्ति। तदयथा--- वातः पित्तं श्लेष्मा शोणितम् । वातपित्त वातश्लेष्माणौ पित्तश्लेष्माणो वातशोणिते पित्तशोणिते श्लेष्मशोणिते । वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः । वातपित्तकफशोणितानीत्येवं पञ्चदशधा प्रसरन्ति। कृत्स्नेऽ ऽवयवे वापि यत्राने कुपितो भृशम् । दोषो विकारं नभसि मेघवत् तत्र वर्षति ॥ नात्यर्थ कुपितश्चापि लीना मागेषु तिष्ठति । निष्पत्यनीकः कालेन हेतुमासाद्य कुप्यति ॥ तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः। पित्तस्य कफस्थानगतस्य कफवत् । कफस्य वातस्थानबालोऽज्ञः। गोधारान्तेन जीवनाथ यत्न कुर्वन्नपि विपद्यत इति दर्शयति। कुर्वीत यत्नम्
For Private and Personal Use Only