________________
Shri Mahavir Jain Aradhana Kendra
५७४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते । उत्पद्यमानं प्रथमं रोगं शत्रु मिवाबुधः ॥ ३२ ॥ अर्हि प्रथमं भूत्वा रोगः पश्चाद् विवर्द्धते । स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः ॥ न मत्यों लभते श्रद्धां तावद् यावन्न पीड्यते । पीड़ितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे ॥ अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते । सर्व्वस्वेनापि मे कश्चिद भिषगानीयतामिति ॥ तथाविधञ्च कः शक्तो दुर्बलं व्याधिपीडितम् । कृशं जीकेन्द्रियं दीनं परित्रातुं गतायुषम् ॥
तिरूपणीय:
कम्मणा शम्म लभते । वाह्याभ्यन्तरशस्त्रोपक्रमणानि दैवव्यपाश्रयमित्यादिना व्याख्यातानि । बालस्तु खल्वप्राज्ञो मोहाद्वा प्रमादाद्वा शत्रुमिवोत्पद्यमानं रोगं न बुध्यते । यतो न बुधः ॥ ३२ ॥
गङ्गाधरः -- कस्माच्छत्रुरिवेति ? अत आह- अणुहत्यादि । हि यस्मात् । रोगः प्रथममणुः सूक्ष्मो भूत्वा पश्चाद्विवर्द्धते । वृद्धस्तु स रोगो जातमूलः सन् दुम्म तेस्तस्याबुधस्य बलमायुश्च मुष्णाति ।
For Private and Personal Use Only
प्रथमं कस्मान्न बुध्यत इति ? अत आह— न मर्त्त इत्यादि । मय यावन्न रोगेण पीड्यते तावच्छ्रद्धां प्रतिकारार्थं न लभते । यदा पीड़ितो भवति तदा पश्चान्मतिं व्याधिनिग्रहे कुरुते ।
व्याधिनिग्रहे मतिं कृत्वा यत् करोति तदाह - अथेत्यादि । अथ व्याधिनातिपीड़ितः सन् तद्वयाधिनिग्रहे मतिं कृत्वा पुत्रान् दारान् ज्ञातश्चाहूय भाषते । किं भाषते ? सव्र्वस्वेनापि मे मम सम्बन्धे कश्चिद्भिषगानीयतामिति भाषते । ततः परं तथाविधं व्याधिपीड़ितं दुर्बलं कृशं क्षीणेन्द्रियं दीनं गतायुषं को भिषक् त्रातुं शक्तः ? ततः स बालोऽबुधस्त्रातारं भिषजमनासाद्य जीवितं यावत् । प्रमादो बुद्धापि रोगमप्रतीकारः, संज्ञा सम्यग् ज्ञानं - व्याधिरयं त्वरया प्रतिकर्त्तव्य इति । एवमाकारं त्रातारं वैद्यमनासाद्य; तथाविधं हि रोगिणं वैद्यो नोपसर्पतीति भावः ।
* न मूढो लभते संज्ञामिति पाठश्वक्रसम्मतः ।